________________
श्रीस्तोत्रचिंतामणिः
नामाद्यैरधिकैश्चतुभिरपि यन्नोआगमान्योक्तिभिः । चिन्त्यं संचितकर्मकल्मषचयपध्वंसकं श्रीप्रदम् ॥ चित्साध्यं निरुपाधिकस्थिरमहानन्दाश्रयापादकं, । विश्वाखण्डलनाकिनामपि महीनां परं दुर्लभम् ॥२५॥ सल्लोकोत्तरवान्छितार्थनिवहादेशनपत्यलं । कौघक्षयशांतियुग्मभवनोपायोद्भवं निर्भयम् ॥ व्यावृत्तीतररूपमव्ययगुणं मैत्रीचतुष्काश्चितम् , । . पूज्यैः साधितमर्पित करुणयान्येभ्यो मुदा भाषितम् ॥२६॥ पूर्व या वरदर्शनाप्तिसमये शेषा बभूव स्थितिः, । सा चेत्पल्यपृथक्त्वकेन रहिता तद् देशतः संयमम् ॥ संख्येयाब्धिविहानिना च लभते सत्संयम सर्वतः, । संख्यातीतभवान् लभेत प्रथमं चारित्रमष्टौ भवान् ॥२७॥ संक्लेशा ध्रुवबाह्यशर्मकलितः सांसारिकार्थवजः, । इत्यालोच्य सुचक्रिणोऽपि मुखद बभ्रुर्मुदा संयमम् ॥ पूज्यास्तद्भवमुक्तिगामिजिनपा अप्यादधुस्तद्धित- । मालस्यं परिहायभव्यचरणं ज्ञात्वैतदङ्गीकुरु ॥ २८ ॥ दुर्भव्या अपि जातिभव्यभविनो भावाल्लभन्ते न यत् । तद्भव्या अपि प्राप्नुवन्ति खलु ये पुण्योदयोत्कर्षिणः॥ ते धन्याः पुरुषोत्तमाश्च विधिना लब्ध्वापि पारंगता, । यस्मादाप्तिरिहास्य विश्वसुलभा सत्पालना दुष्करा ॥२९॥