________________
श्री विजयपद्मसूरिविरचितः सिद्धान्ते तदनेकभेदततिगं प्रोक्तं प्रणीतागमैः । कर्मग्रन्थमतं तदौपशमिकं मिथ्यामतेरादितः ॥ श्रीसिद्धान्तमतेन शान्तिलयजं सद्दर्शनं प्राप्यते । वर्य साधनमस्तदोषविसरं प्रौद्धिंदेवायुषः ॥२०॥ चिंतारत्ननिभं वरेण्यपददं सल्लक्षणैर्लक्षितं, । यद्युक्तोऽधमभिक्षुकोऽप्यधिकतामभ्येति सच्चक्रिणो॥ यद्धीनोऽधमयाचकादपि मतः श्रीसार्वभौमोऽप्यथ, । तत्सद्दर्शनमामजन्तु गुणिनस्तत्त्वार्थसूत्रोदितम् ॥ २१ ॥ भावानामखिलस्वरूपममलं यत्तोङ्गिना ज्ञायते, ज्ञानं तद्विविधं परोक्षमपरं प्रत्यक्षमाद्यं तथा । चारित्रैकनिबन्धनं निरुपमा यत्तो वरा लब्धयः, यद्धीनां न विषालयन्ति भविनोधर्मप्रदां सत्कृपाम् ॥२२॥ निक्षेपैरधिकैश्चतुभिरपि यनो आगमान्योक्तिभिः, । मीमांसाध्वगतं क्षयोपशमनं निर्दषणं क्षायिकम् ॥ भान्वाच्छादकवारिवाहकटसदृष्टान्तगम्यं वरम् , । लब्धिस्थानमशेषपापदलनं भेदैरनेकैर्युतम् ॥ २३ ॥ मातापुत्रबुधार्यरक्षितमतथ्यज्ञानसार्यान्वितं,। भूपाद्यैरपि भूरिसत्कृतमपि प्रानंदमापैव न ॥ मिथ्याज्ञानमपास्य भीमभववाविश्मनौ सन्निभम् , । सत्यज्ञानमभंगयत्नविनयाद् ग्राह्यं सुधीभिस्ततः ॥२४॥