________________
श्री स्तोत्रचिंतामणिः ..
.
पञ्चानां पदधारिणां विनयकृज्ज्येष्ठोऽपि पर्यायतः। तत्सद्भावनवन्दनाविधिकरः स्वाध्यायवोद्यमी ॥ षटकायावनमुक्तिदप्रवचनाम्बाराधकोऽनारतं । जैनाज्ञाप्रणयी कषायविकथाशल्यप्रमादापहः ॥१५॥ चक्रीन्द्रानधिगम्यरम्यप्रमदो येनाप्यते त्यागजो, यः कर्ताऽन्यतिवर्धमानपरिणामेनामृतानुष्ठितेः । संवासं विदधाति सद्गुरुकुले गीतार्थनिश्रानुगः, पूज्यं कल्पविहारिणं तमनिशं वन्देऽनगा मुनिम् ॥१६॥ निःशंकं वितथं न तीर्थपतिभिः प्रोक्तं स्वरूपं समं । निर्ग्रन्थागम एव वा हितकरः सत्यः परार्थस्तदन्योऽर्थोऽनर्थक इत्यनर्थदलना सद्भावना दर्शनं । नामाद्यैः परिभावनीयमनिशं नोआगमान्योक्तिभिः॥१७॥
( द्रुतविलम्बितवृत्तम् ) अमितपुण्यमहोदयशालिनः, प्रवरसाधनपञ्चकभाविनः । प्रकृतिसप्तकशान्तिलयोभयाद्. भवति दर्शनलाभ
इहामलः ॥ १८ ॥ ( शार्दूल० ) भ्राम्यन्भीमभवे महीध्रत टनी तत्मस्तरन्यायतः, । सप्तानां हि यथाप्रवृत्तिकरणादल्पां स्थिति कर्मणां ॥ कृत्वा ग्रन्थिमथोच्छिनत्ति करणेनान्येन कश्चिज्जनो,। गत्वान्त्यं करणं त्रिपुञ्जविधिमाधायाश्नुते दर्शनम् ॥१९॥