SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३८ श्री विजयपद्मसूरिविरचितः निस्तन्द्रो जिनशासनावनविधौ स्वर्णाभदेहाकृतिर्भावारातिनिपीडितांगिनिवहोल्लाघत्वकृत्सद्भिषक् ॥ सद्वादीतरवादिवर्गहरिणस्तोमेषु वक्त्रोपमः । भावाचार्यवरं करोतु विषयं भक्तेर्मुदा देहिनः ? ॥१०॥ निक्षेपैरधिकैश्चतुर्भिरपि यं नोआगमान्योक्तिभिः, । शास्त्रज्ञाः परिचिन्तयन्ति नितरां धीसम्पदाराजितः ॥ पञ्चाङ्गाङ्गविभिन्नवित् समुचितान्तेवासिचिद्भूरुहं । नित्यं पल्लवयन प्रमाद विगतः सद्वाचनाम्भोभरैः ॥ ११ ॥ मोहाद्याहृतचेतनार्थमनुजेभ्यश्चेतनादायको । शास्त्रे गारुडिकोपमोऽपि गदितो यो वर्यधन्वन्तरि ॥ र्दुमत्यामययातनानिगडितभव्याङ्गिनां सत्त्वरम् । श्रीमच्छास्त्ररसायणेन प्रमुदा सत्सज्जतापादकः ॥१२॥ प्रोद्योताक्षरचन्दनाघतपनस्वेदप्रशान्त्याकरो, । दीप्तोऽनुग्रह जीवन गणचिन्ताधायको विस्पृहः | चित्संतोषितशिष्य संघजनता सदभावसंवर्धको । मार्गोद्भासनदीपमुज्वलपदं तं स्तौमि श्रीवाचकम् ॥ १३ ॥ यः सत्साम्यवराशयः श्रुतधरः क्षान्त्यादिधर्मालयः । श्रद्धादित्रिकसाध्यसाधकसदाचारार्तरौद्रापहः ॥ शिक्षाधारकतोषशालिनिजभावालीनभद्रंकरो, । निर्मोहापरिणाम भूरिपरिणामग्रन्थिमिथ्यामतिः ॥१४॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy