SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः । मन्त्रं श्रीसिद्धचक्राख्यं, विमलेश्वरपूजितम् । चक्रेश्वरीसुरीध्यातं, ध्यायामि हृदि सर्वदा ॥२॥ द्वादशाष्टौ क्रमेणाथ, षट्त्रिंशत् पञ्चविंशतिः। सप्तविंशतिग्ग्रेऽथ, षष्ठिः सप्ताधिकैव च ॥३॥ एकपञ्चाशदेवेह, सप्ततिरष्टमे दिने । पंचाशत्स्वस्तिकादीनां, मानं ज्ञेयं यथाक्रमम् ॥ ४॥ प्रदक्षिणाया अप्येवं क्षमाश्रमणकस्य च । संख्या पूर्ववदेवोक्ता, कायोत्सर्गस्य सैव च ॥५॥ द्विः प्रतिक्रान्तिरर्चा च, त्रिकाल श्रीमदहताम् । नव चैत्यवन्दनानि, त्रिसन्ध्यं देववन्दनम् ॥ ६॥ द्विसहस्रप्रमाणोऽथ, जापो द्विः प्रतिलेखनम् । वर्णानुसारतो कार्य, आचामाम्लाभिधं तपः ॥७॥ श्रीमद्गुननेनैव, अहंदादि पदस्य च । श्रुत्वा स्वरूपमानन्दात् , ध्यातव्यं निजमानसे ॥८॥ ध्येयं नवपदध्यानं, सर्वध्येयेषु सुन्दरम् । यत्प्रभावेण नश्यन्ति, सर्वोपद्रव हेतवः ॥९॥ श्रीपालमदनाभ्यां तत् , सिद्धचक्रस्य साधनम् । विहितं बहुमानेन, येन वृद्धिसमृद्धयः॥ १० ॥ चैत्रे तथाश्विने मासे, भो भव्या महदादरात् । कुर्वन्त्वाराधनं तस्य, भवन्तु स्थिरताश्रयाः ॥११॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy