________________
श्री विजयपद्मसूरिविरचितः मूलोत्तरगुणोद्याने, रमन्ते भ्रमरा इव । । भावनावासिताः सन्तः, साधवः सन्तु मुक्तये ॥६॥ निःशंकं तदसत्यं नो, वचनं यज्जिनोदितम् । एवमध्यवसायो यः, दर्शनं तत्सुखावहं ॥ ७॥ बोधो जीवादितत्त्वानां, सम्यग्ज्ञानं तदीष्यते । चारित्रं सत्फलं यस्या-नेक भेदमभिष्टुवे ॥ ८ ॥ त्यागः सावद्ययोगानां, चारित्रं पञ्चधा श्रुतं । आराध्यं मुनिभिर्हर्षा-तद्वन्देऽनन्तशोऽन्वहं ॥९॥ युक्तं द्वादशभेदेन, कर्मेन्धनहुताशनं । तपोऽनिदानभावेन, विधेयं भावमंगलं ॥ १०॥ नवानां सत्पदानां ये, हृदि ध्यानं वितन्वते । भावपाशविनिर्मुक्तं, ते लभन्ते शिवास्पदम् ॥ ११ ॥ गुरुणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः। पद्मसूरिमहोल्लासात् , सिद्धचक्रं स्तवं व्यधात् ॥ १२॥
५. ॥ श्री सिद्धचक्रस्तोत्रम् ॥
( अनुष्टुवृत्तम् ) शंखेश्वरपुराधीश, पाच पार्थोपसेवितम् । नेमिसूरि गुरुं नत्वा, सिद्धचक्रं स्तवीम्यहम् ॥१॥