SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्रचिंतामणिः आस्कन्दन्ति पराभूति, गदादिभ्यो न ते नराः । लभन्ते विजयं नित्यं, यशःकीर्तिमहाबलम् ॥ १० ॥ इत्यालोच्य मुदा कुर्वे, ऽहमपि ध्यानसंस्तुतिम् । कुरुवासं प्रभो चित्त, तेन मे विशदेऽमदे ॥११॥ यन्न जातं भवद्भक्त्या, तन्न केनापि जायते । इति निश्चयसम्पन्नः, त्वनिन्नं न स्मराम्यपि ॥१२॥ गुरूणां नेमिसूरीणां, प्रज्ञांशोऽयं प्रसादतः । पद्मनामा गणी भक्त्या, सिद्धचक्रस्तुतिं व्यधात् ॥१३॥ ४.॥ श्री सिद्धचक्राष्टकम् ॥ ( अनुष्टुव्वृत्तम् ) ध्यात्वा श्रीपार्श्वनाथस्य, पदद्वंद्वं हितप्रदं । नत्वा श्री नेमिसूरीश, सिद्धचक्रमभिष्टुवे ॥ १ ॥ चंगातिशयसंयुक्तं, भ्राजिष्णुं भासुरैर्गुणै-- । रहन्तं नयनिक्षेपै-ध्येयं तं प्रणिदध्महे ॥ २ ॥ सिद्धं कर्माष्टकापेतं, निष्कलंक निरंजनम् । अखण्डानन्दनिर्मग्न, सिद्धिनाथं नमाम्यहं ॥३॥ षत्रिंशत्सद्गुणोपेतं, सारणादिविधायकं । पायकं भवभीतानां, वन्दे मूरीश्वरं मुदा ॥४॥ विवेकभृन्मुनीशानां, वाचनादायकं सदा । सदभ्यासविधौ रक्तं, वाचकं समुपास्महे ॥ ५ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy