SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचित ४.॥ श्री सिद्धचक्रस्तुतिः॥ . ( अमुष्टुब्वृत्तम् ) यन्नामस्मृतिमात्रेण, भव्यानां दुरितक्षयः । पूजा यस्य महानन्द-दायिनी विघ्नवारिणी ॥१॥ तस्य श्रीसिद्धचक्रस्य, माहात्म्यं सूक्ष्मधीरपि । वर्णयितुं न शक्तः स्यात्, चित्रानन्तार्थभावतः ॥२॥ सोऽपि साधनसम्पन्नः, यदि नो सबलो भवेत् । प्रभवेयं कथं तत्र, तदाहं. स्थूलधीषणः ॥३॥ अस्य पूर्णप्रभावेन, श्रीश्रीपालो नराधिपः । चक्रे कुष्ठात्ययं प्राप, प्रौढराज्यं जयावहम् ॥ ४॥ पुण्यं लोकोत्तरं लेभे, पितृव्यमपि स यतः। जिगायाल्पेन कालेन, पुण्यं बलवदेव हि ॥५॥ धन्यास्ते लघुकर्माणो, जन्मत्रितयपावनाः। अल्पबन्धा महोत्साहाः, सदोपशमशालिनः ॥६॥ ये चित्तगुप्तिमाधाय, मोक्षलाभेऽप्यनीच्छवः । अमृतानुष्ठितिप्रीता, भीता कर्मानुबन्धतः ॥ ७॥ समेता द्रव्यसामय्या, साम्यरङ्गतरङ्गिणः । वर्य वैराग्यसद्भावा, निशान्ता योगनिश्चलाः ॥८॥ कुर्वते तस्य मन्त्रस्या-राधनां भावसाधनामपूर्वाहादतो त्यक्त्वा, निदानांशं च सर्वतः ॥९॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy