SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः सिद्धचक्रस्य माहात्म्यं, न गिराऽप्यभिधीयते । तत्त्वत्रयाराधनाऽत्र, सम्पूर्णा धर्मसाधना ॥२॥ व्रताराधनमप्यत्र, केनाप्यंशेन गीयते । फलं भावानुसारेण, भाव उल्लासहेतुकः ॥३॥ क्रियाया अपि प्राधान्यं, ज्ञेयमित्थं द्वयोरपि । कूपरवननतुल्या हि, क्रियाभावो शिरानिमः॥४॥ शिरा नाविर्भवत्येव, कूपखननमन्तरा। शिरामृते वारि नैव, बहु तत्रावतिष्ठते ॥ ५॥ अतः प्रवचने प्रोक्ता, द्वयोरप्युपयोगिता । न चेदेकं तदा नैव, इष्टं कार्य प्रसिद्धयति ॥ ६॥ अल्पनिद्रोऽल्पभोजी च, निरीहो निष्कषायकः । अनन्यनिन्दको धीरो, गुरुभक्तिपरायणः ॥७॥ कर्मक्षयाभिलाषी च, मन्दरागादिवान् नयी। दयालुविनयी प्रोक्तः, सिद्धचक्रस्य साधकः ॥८॥ विज्ञायेत्थं गुरोः पार्श्व, सिद्धचक्रविधिं वरं । साधनां येऽत्र कुर्वन्ति, ते लभन्तेऽचलालयम् ॥९॥ गुरूणां नेमिनरीणां, प्रज्ञांशोऽयं प्रसादतः। पद्मनामा गणी भक्त्या, सिद्धचक्रस्तुति व्यधात् ॥१०॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy