________________
३०
श्री विजयपद्मसूरिविरचित :
प्रभावाद्भुतलावण्य - निधानं सम्पदां पदम् । स्तुतं सद्भिः स्वसिद्धयर्य, नौमि शंखेश्वरं प्रभुम् ॥ ३ ॥ वन्दे चारूपतीर्थेशं, पार्श्वनाथं वरप्रभम् । प्रणामादपि यस्य स्युः, सफलाः सन्मनोरथाः ॥ ४ ॥
शुक्लध्यानप्रयोगेणा-सादितज्ञानसम्पदम् । पञ्चासरप्रभुं पार्श्व, प्रणमामि प्रगेऽनिशम् ॥ ५ ॥ कर्मबन्धोदयापेतं, सत्तातीतं महाबलम् । क्षायिकैश्वर्यसंपनं, स्तौमि सेरीसकप्रभुम् ॥ ६ ॥ चतुर्भङ्गीश्रुते प्रोक्ता, भक्तिप्रणययोरिह । त्रिभङ्गपरिहारेण, आद्येो भङ्गः सुखप्रदः ॥ ७ ॥ परस्तु मध्यमो ज्ञेयः परित्यागोऽन्त्ययोर्द्वयोः । श्रीमत्तीकृतां पूजा, गोचरेयं विचारणा ॥ ८ ॥ त्रिधा दानमिवार्चापि सात्विकी प्रथमा परा । राजसी तामसी चान्त्या, भाव्याऽऽराध्यादिमा परं ॥ ९ ॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्मभावतः । पद्मसूरिः महाssनंदा - पञ्चस्तोत्रं व्यधान्मुदा ॥१०॥
३. ॥ श्री सिद्धचक्रस्तोत्रम् ॥
( अनुष्टुववृत्तम् )
परमेष्ठिमहामन्त्रं, नेमिसूरीश्वरं तथा । प्रणम्य प्रणयाम्यद्य, सिद्धचक्रस्तुतिं मुदा ॥ १ ॥