SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः पूजनाजायते पूज्यः, ध्यानतो ध्यानगोचरः । वन्दनाद्वन्दनीयश्च, दर्शनीयोऽवलोकनात् ॥ ३० ॥ गदितं स्तवनादीनां, फलमेवं जिनश्रुते । तथा व्यावणितं श्रुत्वा, को न स्याद्भक्तितत्परः ॥३१॥ नश्वरं जीवितं भव्याः!, विपाकः कर्मणां तथा । भयंकरः क्षणादृर्श्व, भावि किं तन्न बुध्यते ॥ ३२ ॥ भोगतृष्णां सदा धिया, बुद्धवा श्वभ्रक्लेशपदायिनीम्। भजतेनं मुदा पार्श्व, नोचितोऽन्यत्र विभ्रमः ॥ ३३ ॥ ॥ आर्यावृत्तम् ॥ बाणनिधाननवेन्दु-प्रमिते संवत्सरे च मधुमासे ॥ सितपक्षे पञ्चम्यां, त्रिप्रभुस्तोत्रं च पझेन ॥ ३४ ॥ रचितमहमदाबादे, करणादेतस्य यन्मया लब्धं ॥ पुण्यं तेनाऽस्तु सदा, मंगलमाला च संघगृहे ॥३५॥ २. ॥ श्री पञ्चस्तोत्रम् ॥ ( अनुष्टुब्बृत्तम् ) सिद्धचक्रं मुदा नत्वा, नेमिसरिपदाम्बुजम् । पञ्चस्तोत्रं प्रकुर्वेऽहं, भक्तिभावार्थसंगतम् ॥ १॥ पद्मावतींद्रवरुण-रामकृष्णादिदेहिभिः। पूजितं बहुधा भावात् , स्तम्भनेशं सदा स्तुवे ॥२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy