________________
श्री विजयपद्मसूरिविरचितः सद्देशनारंजितभव्यलोकं । सत्केवलालोकितसर्वभावं। सिद्धं भवाम्भोनिधियानपात्रं । नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥ ३ ॥
३१. ॥ श्री नमिनाथ चैत्यवंदनम् ॥
॥ शालिनीवृत्तम् ॥ शांताकारं भव्यचेतोऽब्जभानु । संसाराब्धौ यानपात्रं जनानां ॥ सद्भावाढयं चंगनीलाब्जचिह्न । वापुत्रं सर्वदा नौमि भावात् ॥१॥ कल्याणौघाधायकं शुद्धबोधं । सयानश्रेणिप्रणष्टारिसैन्यं ॥ विश्वापद्विध्वंसिनी यस्य पूजा । वमापुत्रं सर्वदा नौमि भावात् ॥ २ ॥ दृष्टे यस्मिन्सात्त्विकानन्दलाभो । ध्यानाद्यस्य प्राज्यसिद्धिप्रसिद्धिः॥ देवाधीशाधङिसार्थार्यपादं । वपापुत्रं सर्वदा नौमि भावात् ॥ ३ ॥