________________
श्री स्तोत्रचिंतामणिः
प्रणाशिताखिलापदं स्मरामि मल्लितीर्थपम् ॥ १॥ निशाकरप्रभाननं, मनोज्ञवाचमीश्वरः मनोरथप्रदायक, स्मरामि मल्लितीर्थपम् ॥२॥ अमित्रमित्रयोः सदा, समानभावभूषितं; समस्तदोषवर्जितं स्मरामि मल्लितीर्थपम् ॥ ३॥
३०. ॥ श्रीमुनिसुव्रतस्वामि चैत्यवंदनम् ॥
॥ इन्द्रवज्रावृत्तम् ॥ अर्हद्वरेण्यं वरसाम्यसिंधु । पद्माङ्गजं तीर्थपति विमोहं ॥ भव्याननं विश्वप्रकाशभानु । नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥ १॥ दुःखौघसंसारपदार्थकाङ्क्षा, मेघापनोदानिलमुत्तमाप्तम् ॥ प्रत्यूहकाष्ठौधविदाहनाग्नि । नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥ २॥