________________
१६
श्री विजयपद्मसूरि विरचितः र शर्म निजं तृणोपममपि माज्यं न ते मन्यते । वंदेऽध्यात्मरसमदायकमहं तं श्रीजयानन्दनम् ॥२॥ सच्चित्ताब्जदिनेशकल्पममितैः सल्लक्षणैरन्वितं । व्यस्ताशेषसरोषदोषनिकरं पुण्यद्रुमेघोपमम् ।। शुक्लद्धयानकृशानुहेतिनिवहमध्वस्तकर्मेन्धनम् , नौमि श्रीवसुपूज्यभूपतनयं प्रौढप्रभावाननम् ॥ ३ ॥
२३. ॥ श्री विमलनाथ चैत्यवन्दनम् ॥
(वैतालीयवृत्तम् ) निखिलाक्षनिरोधकारक, हरिदेवौघसमर्चितक्रमम् ॥ विकलङ्कचरित्रधारक, विमलं स्तौमि जिनं शमीश्वरं ॥१॥ यदि चेतसि भद्रवांछना, तव हे जीव ! तदा हितप्रदाम् ॥ प्रमुदाविचलेन चेतसा, कुरुवया विमलार्चनां सदा ॥२॥ विमला बहवोऽभिधानतो, गुणयुक्ता पुनरत्र दुर्लभाः ॥ विमलं गुणतोऽभिधानतः, प्रणमामीशमनन्तसद्गुणम् ॥३॥
२४. ॥ श्री अनन्तनाथ चैत्यवन्दनम् ॥
( सग्विणीवृत्तम् ) भव्यचेतश्चकोरेन्दुरीशोऽहताम् , संस्तुतो भावतो द्योफ्तीशवजैः ॥ चित्कलानन्दिताशेषसन्मण्डलोऽनन्तनाथोऽस्तु मे सर्वसिद्धिपदः ॥१॥