________________
श्रीस्तोत्रचिंतामणिः
शर्मदं कामदं कामदं निर्गदं । विश्वविश्वस्थभव्याङ्गिसंपूजितम् ॥ सिंहसेनान्वयव्योमदोषाकरं । त्वामनन्ते वरं स्तौमि निस्तारकम् ॥२॥ त्यक्तरामाक्षमालास्त्रसार्थान्वयं । मङ्गलालिप्रदानामरानोकहम् ॥ नामसद्ध्यानतो यस्य सिद्धिर्भवेद् , नौमि तं श्येनचिहनं जिनाधीश्वरम् ॥ ३॥
२५. ॥ श्री धर्मनाथ चैत्यवंदनम् ॥
(द्रुतविलम्बितवृत्तम् ) भुवनभव्यकजोन्नतिभास्करं । सकलवांछितदानसुरद्रुमं ॥ विमलमंगलकेलिविधायकं । भजत भानुसुतं भुवनाधिपम् ॥१॥ अशनिलन्छनमुत्तमसुत्रता-। गजमनन्तगुणावलिभूषितं ॥ मथितमन्मथदर्पमनीश्वरं । भजत भानुसुतं भुवनाधिपम् ॥२॥ अमृतभोजिगणस्तुतसद्गुणं । अतिशयाञ्चितदेहजगद्वरं ॥ .....