________________
श्री विजयपद्मसूरिविरचितः
१५ ॥ श्री सुमतिनाथ चैत्यवंदनम्-२॥
॥ आर्यावृत्तम् ॥ भुवनप्रकाशनभानु, कृशानुमतिगाढकर्मवनदहने ॥ क्रौञ्चध्वजमेघसुतं, त्रिशतधनुर्दैहमभिवंदे ॥१॥ भविजनचित्तकजेन्दु, विमतिवितानेभवारपंचमुखं ॥ खाश्वसुभटजेतारं, वंदे श्रीमंगलातनयं ॥ २ ॥ पूर्वाणां लक्षाणि, चत्वारिंशच यस्य सर्वायुः ॥ निजगुणरक्तं सुमति, नित्यं प्रातः प्रणिदधामि ॥३॥
१६. ॥ श्री पद्मप्रभस्वामि चैत्यवंदनम् ॥
( वसंततिलकावृत्तम् ) प्रस्वेदरोगमलहीनशरीरमेवं, रूपं च यस्य प्रवरं शुभदेहगंधो ॥ श्वासोऽपि नीरजसुगंधसमस्तथैव, मांसासृजौ विमलधेनुपयःसितौ च ॥१॥ नीहारभोजनमनीक्ष्यमवर्यनेत्रैरुद्दामसद्गुणनिधिर्मरुदर्चनीयः ॥ कल्याणसुंदररुचिनिहतान्तरारिः, पद्मप्रभः स जिनपोऽस्तु ममोदयाय ॥२॥ रामादिसंगविकलं यमवीक्ष्य देवा, नीचैर्मुखा हरिहरप्रमुखा भवन्ति ।