________________
श्री स्तोत्रचिंतामणिः
दूरस्थोऽपि जगन्नाथ !, त्वन्नामस्मृतिवारिणः ॥ निर्धौताघमला भव्या, लभन्ते परभं पदं ॥ २ ॥ त्वद्विबध्यानलीनोऽयं, किंकरोsस्मै समर्पय ॥ सात्विकानन्दसंदोहं त्वन्निभत्वं भजेद्यतः ॥ ३ ॥
१४. ॥ श्री सुमतिनाथ चैत्यवंदनम् - १ ॥
॥ वसंततिलकावृत्तम् ॥
सुस्नापितोऽमरगिरौ निजजन्मकाले, यो वज्रिभिर्विविधसत्कलशैः प्रदीपैः ॥ कल्याणकेषु मुदिताश्च चतुर्षु यस्य, श्वभ्राङ्गिनोऽपि प्रभवन्ति विकासभाजः ॥ १ ॥ नाथ ! त्वदीयचरणाब्जमसेवमानः, भ्राम भीषणभवेऽहमनन्तकालं ॥
भाग्योदयेन नृभवं समवाप्य भावाद्, भव्यानां विदधतः कुरु मेऽथ रक्षां ।। २ ।। त्वां भद्रभूमिरुहसेचनवारिवाहं, दृष्ट्वा विकासमयते मम चित्तवर्दी || कल्याणकांति सुमते ! करुणां विधाय तूर्ण विमोचय च मां बलिमोहपाशात् ॥ ३ ॥
११