________________
श्रीस्तोत्रचिंतामणिः
भविजनाम्बुजभासनभास्करः, भुवनबांधव ईहितदायकः;. प्रणतवासवचक्रिनृपावलि, विजयतामजितोऽत्र जिनाधिपः ॥ २ ॥ खदमिनं खमनोरथनिर्गतं, मदनखं खमिवानघलेपनं; जिनखमप्रतिकारखमारतं, तमजितं भविनीरजखं स्तुवे ॥ ३ ॥
८. श्री अजितनाथ चैत्यवंदनम् -२ ॥
॥ वसंततिलका वृत्तम् ॥
दिव्यातुलां सुखततिं विजयेऽनुभूयाऽ । योध्यापुरीं च विजयाशुभकुक्षिशुक्तौ ॥ मुक्तोपमोऽजितजिनोऽवततार विज्ञः । श्वेतत्रयोदशदिने मलमाधवीये ॥ १ ॥ यस्याष्टमीवर दिने सित पक्षमावे, जन्मोत्सवोऽमरवराः प्रचकार मेरौ ॥ माघे सितेच नवमी शुभवासरे यो, दीक्षi mat प्रविशदोन्नतभावनाढ्यः ॥ २ ॥ ध्यानान्तरीयसमये गतघातिकर्मा, संमाप केवलमनन्तपदार्थबोधं ॥ aa शिवं सकलकर्मविनाशकाले कर्माजिताजितप्रभुं प्रणिदध्महे तं ॥ ३ ॥