SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरि विरचितः विघ्नाधायककर्मभूधरमहावनं च सोमाननं । तं नाभेयप्रभु स्तुवंतु भविनः सन्निर्जराकारणं ॥३॥ ... ६. ॥ श्री आदिनाथ चैत्यवंदनम्-२ ॥ . ॥ मालिनी छंदः ॥ युगलिकमनुजानां योऽनिश भक्तिभाजा-। मुपकृतिमुपचक्रे राज्यमाप्तो युगादौ । भवमगणितदुःखं मुक्तिदां च प्रव्रज्यां । लघु मनसि विचार्यतां मुदाणीचकार ॥१॥ सममतिमवलंब्य स्वानुकूलेऽपरस्मिन् । भविजनहितलब्ध्यै यो धरायां विजहे। कलितनिखिलभावः केवलेनानुभावात् । समुदितजिननामा घातिकर्मप्रणाशे ॥ २॥ हरिभिरमरयुक्तैरचितो दिष्टधर्मः । विगलितरिपुवर्गः संस्मृतेर्यस्य नाम्नः॥ समजगदसुमन्तः प्राप्नुवन्तीष्टसिद्धि, स भवतु मम मुक्त्यै नाभिमूनुर्वृषाङ्कः ॥ ३ ॥ ७. ॥ श्री अजितनाथ चैत्यवन्दनम्-१॥ ( द्रुतविलम्बितवृत्तम् ) सुखदजन्मनि यस्य मुदन्विताः, निरयवासगता असुशालिनः। सुरवरासनमाचलतां गतं, तमभिनौम्यजितं हयचिह्नितम् ॥१॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy