________________
श्री विजयपद्मसूरिविरचितः
९. ॥ श्री तारंगतीर्थपति श्रीअजितनाथ
चैत्यवंदनम्-३॥
॥ हरिगीत छंदः ॥ भव्याम्बुजोल्लसनैकदिनपतिनिजगुणौधरमणकरं, निखिलविश्वपदार्थदर्शकबोधरत्नजलाकर; नाकीशसुरनरचक्रिपूजितविमलपादेन्दीवरं, तारंगतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरं १ सद्वाक्यरचनोल्लासबंधुरमगुणमुणगणमंदिरं, शुभचरणविबुधकदंबसंस्मृतभावरत्नक्किवर; सकलाङ्गिभद्रविधानतत्परविशदधर्मखभास्करं-तारंग० २ . सध्यानपावकदग्धहास्यविनोदमदनेन्धनभरं, सदतिशयगणभूषितं परभावपीडोत्करहरं; सद्देहि वाञ्छितवर्गवितरणकल्पतरुमुत्तमनरं-तारंग० ३ यद्देशनामुपकर्ण्य भूपकुमारपालः सुंदरं, प्रविधापयाञ्चक्रे जिनालयमत्र तीर्थे श्रीधर कलिकालसर्वज्ञेन तेनेडितपदं शांत्याकरं-तारंग० ४ त्वां प्रसन्नास्यं प्रणम्य करोमि विज्ञप्ति हितां, मां त्वया सदृशं विधेहि जिनेश भक्तिसमन्वितं; गुरुनेमिसूरीशपद्म एवमुवाच नम्रवचनभरं-तारंग० ५