SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरि विरचितः अस्मिन्नाटकसंनिभे भवपुरे कालादनादेरहम् । रागाद्यैश्चरटैविपत्तिदलनात्ते दर्शनादन्तरा॥ कृत्वा मां प्रविडंबितं करुणया हीनैरहं नाटितः। दृष्टः सात्त्विकहर्षदस्त्वमधुना पुण्यप्रभावान्मया ॥६॥ त्रैलोक्याक्षिचकोरचंद्रजिनपश्रेणिप्रधानप्रभो !, निष्कर्मा त्वमहं च कार्मणमहास्कंधान्वयैष्टितः ॥ भेदं किङ्करपूज्ययोर्जनयतः कमित्वनिष्कर्मते । शीघ्रं तं तदपाकुरुष्व कृपया यं काश्ते मे मनः॥७॥ ॥ अनुष्टुब्वृत्तम् ॥ मंगलं गिरिराजोऽस्तु, श्रीसंघे जिनशासने ॥ शत्रुजयेशभक्तानां, गृहेऽस्तु मंगलावलिः ॥ ८॥ ४. ॥ श्री आदिप्रभुस्तोत्रम् ॥ ( शार्दूल० ) शुक्लध्यानसमाप्तसाधनतयाऽगण्या पवित्रात्मनः । यस्योपास्तिरता शिवालयगताः सद्यो बभूवुर्जनाः ॥ ख्यातो यो भुवनत्रयेऽरिजयनाच्छर्जुञ्जयस्वाख्यया । तत्रस्थः प्रभुनाभिभूपतनयः श्रेयस्करोनोऽस्तु वः ॥१॥ यत्रस्थश्च बभूव केवलिवरः श्रीपुंडरीको गणी। सिद्धोऽङ्गादिविभावभावरहितः सत्पंचकोटीयुतः ॥ तेनाख्यातिमवाप योऽत्र नितरां श्रीपुंडरीकाख्यया । जीयात्सोऽमृतभोजिनाथमहितः श्रीपुण्डरीकाचलः ॥२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy