________________
श्रीस्तोत्रचिंतामणिः
-
३. ॥ श्री शत्रुजयप्रभुस्तोत्रम् ॥
( शार्दूलवि० ) यः कल्याणरुचिगुरुश्च जगता यं स्तौति देवाधिपः । येन स्थानमनन्तमाप्तमचलं यस्मै च भव्यस्पृहा ॥ यस्मात्ख्यातिगताः कला भविजना यस्भाभियां ध्यायति । यस्मिन्सिद्धिततिः मणौमि तमहं शत्रुजयाधीश्वरम् ॥ १ ॥ कल्याणद्रुमपल्लवैफजलदः सद्भावसंपादको। विश्वस्थाङ्गिमनो जभानुस्तुलात्मीयद्धिदानक्षमः ॥ सद्वान्छाघटितार्थसार्थविशदत्यागामरेलारुहः । श्रीनाभेयजिनाधिपोऽस्तु भविनां मांगल्यमालापदः ॥२॥ यज्जन्मादिचतुष्टयेऽत्र निरयेऽप्याभाससौख्यं भवेद । यत्स्थानाचलदर्शनादपि भवेयुनिर्मला भद्रिकाः ॥ तिर्यचोऽपि गताः सुपर्वनिलयं यद्ध्यानमात्रादपि । तं वंदेऽमितभावभावविमलानन्तालयाब्जालयम् ॥३॥ पूर्वानेकभवाजिताघनिचयप्रोत्सारिणं योगिनं, निःशेषाभ्युदयपदाननिपुणं कान्तं निशान्तं श्रियो । भव्योद्गीतयशःप्रशस्तिप्रहताशेषान्तरारित्र । वेदेन्दुपमितैः कृतार्थमिहितस्थानर्गुणानां क्रमात् ॥ ४ ॥ मोक्षाप्तिनं यदन्तरेति गदितं श्रीमज्जिनेन्द्रागमे । मूलं बोधितरोर्निधानमसमं यद् गीयते संपदाम् ॥ यस्माद् बोधसुसंयमेऽपि सफले यत्तीर्थकृत्कर्मदं । तत्सम्यक्त्वसमर्पकं प्रतिदिनं स्वणोद्रिनाथं स्तुवे ॥५॥