________________
९८
श्री विजयपद्मसूरिविरचितः
आत्मोद्धारक एक एव मम सोपाधेर्भवाम्भोधितः । तीर्थोद्धारपरायणो जयतु स श्रीनेमिसूरीश्वरः ॥ १० ॥
विद्यागुरु श्रुतादिपाठक परमोपकारि आचार्य महाराज श्री
॥ विजयोदय सूरीश्वर स्तोत्रम् ॥
|| आर्यावृत्तम् ॥
नवा कदंबतीर्थेश, मिसूरीश्वरं गुरुं ॥ श्रुतदोदयसूरीशं, संस्तवीम्युपकारिणम् ॥ १ ॥ ( शार्दूलविक्रीडितवृत्तम् )
1
।
सज्ज्ञानादिगुणाय कोविदस भाविख्यातसत्कीर्त्तये मान्यप्राज्ञसमूहवन्द्यचरणाम्भोजाय सद्योगिने || सद्व्याख्यानकलाय तीक्ष्णमतये पूज्याय पूज्यैरपि । गच्छेशोदयसुरये प्रशमिने तस्मै नमोऽनारतम् ॥ २॥ निःशेषस्वपरागमार्थगहनैदं पर्यसद्वेदिनम् । श्रीसंघोन्नतिकारकं मुनिततिज्येष्ठं मनोज्ञक्रियम् ॥ भव्योद्धारसमीहया श्रुतमहादानं ददानं सदा । निर्मानं गुरुभक्तितीत्रधिषणाचार्योदयं संस्तुवे || ३ ॥ दक्षं दातुमुदारशास्त्रगहनप्रश्नोत्तरान्प्रस्फुटान् । निर्देशं त्रिदशेन्द्रचक्रिविनुताङ्कयम्भोज पूज्याईताम् ॥ कार्योधं विदधानमस्तकलुषं हर्षात्पुरस्कृत्य च । सद्ध्यानप्रणयं प्रमादरहितं सद्भावनाभावितं ||४|