SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः - निःसंगोऽप्युपकारदीनकरुणायैः सद्गुणैः संगवान् । तं कुर्वे मणिधानगोचरमहं श्रीनेमिसूरीश्वरम् ॥ ५ ॥ कालेऽस्मिन्गणधारि गौतम इव प्रौढप्रभावाश्चितः । भूपालेभ्यगणैः गुणैकरसिकैरीज्योऽपि नम्रश्च यः॥ आयोपायविचक्षणः श्रमणसंघापायनिस्फेटकः। तं वंदे ममतावितानरहितं श्रीनेमिसूरीश्वरम् ॥ ६॥ न्यायव्याकरणादिबोधकलिता यस्य प्रभावाद् ध्रुवं । सम्यग्दृष्टिमहाव्रतादिसहिता दीनानुकंपाभृतः ॥ सप्तक्षेत्रधनव्ययादिनिरता जाता ह्यने केऽङ्गिनः । तं भक्त्या सततं मुदा प्रणिदधे श्रीनेमिमूरीश्वरम् ।।७॥ विज्ञातः स्वपरार्थशास्त्रविसरो येनाशु बुद्धेबलात् । यः पञ्चातिशयैयुतोऽत्र जयति स्थानांगपाठानुगैः ।। चित्तं सद्गुणनिर्गुणेऽपि समतां यस्यान्वहं संगतं । नित्यं स वितनोतु मंगलततिं श्रीनेमिसूरीश्वरः ॥८॥ पाक् पर्वण्यपि यो बभूव सबलो नैकाशनेऽपि व्रते । संजातोऽखिलशास्त्रयोगकुशलो यस्यानुभावादहं ॥ सिद्धांतार्थरहस्यमप्यवगतं भक्त्या मयान्तःस्थया। तं नौमीप्सितदानकल्पविटपि श्रीनेमिसूरीश्वरम् ॥९॥ वक्तुं शक्तिमती न मेऽपि रसना यस्योपकारावलिं । ध्येयो यो मयि निगुणेऽपि प्रगुणो भद्रोनतौ सर्वदा॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy