________________
९६
श्री विजयपद्मसूरिविरचितः
॥श्री गुरुदेवस्तवनम् ॥
(शार्दूलविक्रीडितवृत्तम् ) अहंभास्करकेवलीन्दुविरहेऽस्मिन्भारते विश्वसत् । तत्त्वाविष्कृतितत्परः प्रविशदाकूतप्रकाशान्वित ॥ उद्दधे भविकान् भवान्धुपतितान्सद्देशनारज्जुतः। यस्तं मद्गुरुनेमिमरिममदं वंदे मुदाहानशम् ॥१॥ प्राप्यन्तेऽनुपमोत्सवाः प्रतिदिनं भव्यैर्यदाख्यास्मृतेः । सच्चारित्रपवित्रदेहमसुभृद्भद्रंकरं सर्वदा ॥ कर्मस्तंबलवित्रसाम्यनिलयं प्रस्थानसंसाधकं । तं श्रीमद्गुरुनेमिसूरिमनिशं ध्यायामि सद्भावतः ॥२॥ योगक्षेमकरं सदैव विधिना नव्यार्थलब्धार्थयोः । प्राप्तित्राणविधौ क्रमेण भुवने दीपं प्रदीपाननं ॥ पंचाचारप्रपालनैकनिपुणं श्रीमत्तपागच्छपं । निस्तंद्रं प्रगुरुं नमामि सततं श्रीनेमिसूरीश्वरम् ॥ ३ ॥ सत्त्वे यस्य निरस्तवीर्यप्रसरास्तीर्थान्वयास्तस्कराः। तत्सत्यं खलु भास्करे समुदिते चंद्रादितेजः कियत् ।। सौभाग्यादि गुणावलि गणयितुं शक्तो न वाचस्पतिः । तं चिंतामणिजिखरं प्रणिदधे श्रीनेमिसूरीश्वरम् ॥ ४ ॥ योऽनिर्मान्यपि मान्यकोविदकुलैः सन्मानितां प्रापितः। योऽनंगारतिकारकोऽपि विमलानंगार्थसंसाधकः ॥