SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः नमः श्रीसिद्धचक्राय, सिद्धमाहात्म्यशालिने । अनन्तार्थस्वरूपाय, पायकाय भवाम्बुधेः ॥२॥ साध्यसिद्धिसमीहानां, विघ्नध्वंसविधायिने ॥ चिन्ताव्याधिसमेताना, विशालानन्ददायिने ॥३॥ कवीनां कविताशक्तेः, भव्यानां भावसन्ततेः । सम्पदां सम्पदिच्छूना, मुक्तेमुक्त्यभिलाषिणाम् ॥४॥ दायकं सिद्धचक्रशं, भव्या भाविमहोदयाः। भजन्तो भावतो नैव, स्पृश्यन्ते रिपुपीडया ॥ युग्मम् ॥ ५ ॥ धर्मिणः पञ्च चत्वारो, धर्मा नव पदाश्रये । एकभक्त्या द्वयोभक्ति-र्दानादीनां तथैव च ॥६॥ अर्हत्सिद्धाश्च सूरीशाः, पाठकाः श्रमणास्तथा । दर्शनज्ञानचारित्रं, तपो नव पदात्मकम् ॥ ७ ॥ सिद्धचक्रं पर तत्त्वं, शासने जिनभाषिते ॥ परमार्थो न तद्भिन्नः, कल्पशाखी कलावपि ॥ ८॥ मंगलं परमं ध्यानं, क्रियेयं मंगलप्रदा। मंगलं भावतो ध्याता, मंगलं साधनाक्षणः ॥९॥ सिद्धाः सिद्धयन्ति सेत्स्यन्ति, सिद्धचक्रमभावतः । भव्यानां क्षीणदोषाणां, साधनेच्छा प्रजायते ॥१०॥ विद्यापवादनिःस्यदं, महासिद्धिप्रदायकं । भव्याः ! संसेव्य भावेन, लमध्वं सिद्धिसंपदम् ॥११॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy