________________
श्री विजयपद्मसूरिविरचितः विवेकभृन्मुनीशेभ्यः, वाचनादायकं सदा ॥ सदभ्यासविधौ रक्तं, वाचकं समुपास्महे ॥५॥ मूलोत्तरगुणोद्याने, रमन्तो भ्रमरा इव ॥ भावनावासिताः सन्तः, साधवः सन्तु मुक्तये ॥६॥ निःशंकं तदसत्यं नो, वचनं यजिनोदितं ॥ एवमध्यवसायो यः, दर्शनं तत्सुखावहं ॥ ७॥ बोधो जीवादितत्त्वानां, सम्यग्ज्ञानं तदीष्यते ॥ चारित्रं सत्फलं यस्या-नेकभेदमभिष्टुवे ॥ ८ ॥ त्यागः सावधयोगानां, चारित्रं पंचधा श्रुतं ॥ आराध्यं मुनिभिहर्षात् , तद्वन्देऽनंतशोऽन्वहं ॥९॥ युक्तं द्वादशभेदेन, कर्मेन्धनहुताशनं ॥ तपोऽनिदानभावेन, विधेयं भावमंगलं ॥ १० ॥ नवानां सत्पदानां, ध्यानं ये हृदि कुर्वते ॥ भावपाशविनिर्मुक्तं, ते लभन्ते शिवास्पदम् ॥११॥ गुरूणां नेमिनरीणां, सत्प्रसादान्मनोहरं ॥ पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तवं व्यधात् ॥१२॥
॥२॥ श्री सिद्धचक्राष्टकम् ॥ श्रीपार्श्व स्तंभनाधीश, प्रणम्य स्वगुरुं तथा । स्तुवे श्रीसिद्धचक्रेशं, सकलाभीष्टदायकम् ॥१॥