________________
श्रीस्तोत्रचिंतामणिः
( अनुष्टुब्वृत्तम् ) निष्कामवृत्तिभिर्भव्य-र्भाव्याऽतो ममतापहा ॥ यतोऽईद्धर्मनिर्विघ्ना-राधना सफला भवेत् ॥१५॥
॥ आर्यावृत्तम् ॥ बाणनिधाननवेन्दु-प्रमिते वर्षेऽक्षयतृतीयायां ॥ श्रीमदहमदाबादे, विशदं वैराग्यकुलकमिदम् ॥ १६॥ श्रीनेमिसूरिशिष्यो, गुर्वनुभावेन पद्मसूरिरहं ।। पणिनायातो पुण्य, यत्तेन सुखी भवतु सङ्घः ॥१७॥
॥श्री सिद्धचक्राष्टकम् ॥
( द्रुतविलंबितवृत्तम् ) ध्यात्वा श्रीपाश्र्वनाथस्य, पदद्वंद्वं हितप्रदं ॥ पूज्यश्रीनेमिसूरीशं, सिद्धचक्रं मुदा स्तुवे ॥ १ ॥ चंगातिशयसंयुक्तं, भ्राजिष्णु भासुरैगुणैः ॥ अर्हन्तं नयनिक्षेपै-येयं तं प्रणिदध्महे ॥२॥ सिद्धं कर्माष्टकापेतं, निष्कलंक निरंजनं ॥ अखण्डानन्दनिर्मग्नं, सिद्धिनाथं नमाम्यहं ॥३॥ षट्त्रिंशत्सद्गुणोपेतं, सारणादिविधायकं ॥ पायकं भवभीतानां, वंदे सूरीश्वरं मुदा ॥ ४ ॥