SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८६ श्री विजयपद्मसूरिविरचितः धर्मोऽर्हत्प्रभुभाषितोऽतिविशदस्त्राणं परस्मिन्निह । कर्माणि प्रलयं प्रयान्त्यनुदिनं घोराणि यद्भक्तितः ॥ यं संसाध्य गताः शिवं च भविनः सेत्स्यन्ति सिध्यन्ति च । जीवेनात्र मृतेन गच्छति परं लोकं स सार्धं सदा ॥ १० ॥ ये स्वीयोन्नतिसाधकाः प्रशमदाः संसाधयेस्तान्मुदा । साध्यादूर्ध्वमनिष्टमिष्टमिति वा चैप्यत्फलं संस्मरेः ॥ कृत्याभ | सनिबन्धनप्रतिविधानोपायमालोचयेः । रागद्वेषलयो यथा भवति संकुर्याः प्रवृत्तिं तथा ॥ ११ ॥ संप्रीतो भव सर्वदा निजगुणारामे रतस्त्वं मुदा । कर्माधीनदशागताच भविनश्चित्रं बुधानां कथं ? | त्वं कस्यापि न कोऽपि तेऽत्र न भवे पार्श्व त्वदीयं तव । त्वद्भिन्नं तव नास्ति पुद्गलरतित्यागी भव त्वं मुदा १२ ॥ रागद्वेषरिपू प्रशांतिधनवायू तीव्रदुःखप्रदौ । aौ त्यक्त्वा तुलसात्त्विोन्नतिगते लेशः सदा त्वं भव ॥ त्वां खिन्नं च विधास्यतीह परकीयाशा महाक्लेशदा । आशादास्यमुपागताश्च मनुजाः संस्युर्जगत्किङ्कराः ॥१३॥ न्यायाधीशदशः कदापि विमती रोगी निरोगः कदा | इभ्यस्त्वं च कदापि निर्धनदशस्त्वं दूरुची रूपवान् ॥ शक्तस्त्वं च कदाप्यशक्तिकलितोऽप्येवं स्थितीः कर्मणां । ज्ञात्वा त्वं भव जीव ! साम्यनिरतः शुद्रोपयोगी सदा १४
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy