________________
श्री स्तोत्रचिंतामणिः
आपुर्वायुतरंगसंनिभमिदं सोपक्रमं बाऽस्थिरं । प्रत्यक्षं च निरीक्ष्यतेऽत्र जननीगर्भ मृताः केचन ॥ केचिजन्मगताश्च बाल्यसमये केचिन्मृता यौवने। कार्या धार्मिकसाधनाऽत इह संत्यक्त्वा प्रमादं सदा ॥५॥ स्वाम्यं वारणकर्णसंनिभमिदं विद्युच्चला संपदः । नारीलोचनचंचलं भवसुखं स्वप्नोपमं यौवनं ॥ सर्वे स्वार्थपरायणा निजजनाः स्नेह्यादिरागोऽस्थिरः। सिद्धे स्वार्थ इहापयांति निजकाः कार्या रतिस्तेषु न ॥६॥ यत्संबद्धमिदं शरीरमधुना रे जीव ! ते जन्मन । स्त्यक्त्वा त्वं तदपि प्रयास्यसि परं लोकं च मोहं त्यज॥ शब्दादीन्प्रविहाय मोहविषयान्मत्यावजन्तीक्षितुं । नो केऽपीति विचारणीयमसकुत्के के स्मरंतीति तान् ॥७॥ एकोऽहं मम कोऽपि नो भववने कस्याप्यहं नो कदा। शिक्षा चेतसि धारय प्रमुदितस्त्वं दर्शनाद्यात्मकः ॥ नित्यस्त्वत्परवस्तुजातमखिलं बाह्यं विधावात्मकं । भुक्ता दुःखततिस्त्वयाऽत्र सततं संयोगमूला भवे ॥८॥ उक्तामेवमनित्यतां प्रतिदिनं ये भावयन्त्यादरात् । ते शोचन्ति सुतादिके न मरणं प्राप्तेऽपि प्राणपिये॥ सर्व नित्यमिति ग्रहातमनुना भग्ने कुटीरेऽपि चा-। · बोधान्नित्यमपारशोकजलधि मज्जति धर्मोज्झिताः ॥९॥