________________
श्री विजयपद्मसूरिविरचितः
गुरूणां नेमिसूरीणां, पूज्यानां सत्मसादतः ॥ प्रणिनाय पद्मसूरिः, सद्वैराग्याष्टकद्वयम् ॥ १६ ॥
॥ श्री वैराग्यषोडशकम् ॥
(शार्दूलविक्रीडितवृत्तम् ) येषां संहननं बभूव सबलं वज्रर्षभायं तथाऽऽ । युश्चैवं निरुपक्रमं गतगदं तेऽनित्यतालिङ्गिताः ॥ संप्राप्ता मरणं विचारय तदा रे जीव ! का ते कथा ?। ते देहः सबलो न किंतु कदलीग:ः समोऽल्पस्थितिः॥१॥ किपाकप्रतिमाः समस्तविषया निःसीमदुःखप्रदाः । सौख्यं किंचिदवास्तवं च मनुते मोहीजनोऽज्ञानतः॥ मार्जारश्च पयोगृहीतलकुटं नोत्पश्यति म्वादयन् । भुञ्जाना विषयान्यमं विषयरागाव्यास्तथा मोहतः ॥२॥ भुक्तं हन्ति विषं स्मृता अपि च ते मृत्यतिदाः सर्वतो । दुःखान्यत्र बहून्यवाप सुसतीसीतेच्छया रावणः॥ कंदर्पोऽपि जहावसंश्च मलयां कांक्षन्महामोहतो विज्ञायैवमनन्तकालसुखदे धर्मे विधेया रतिः ॥३॥ विष्ठामूत्ररसास्थिमेदकुणिमासृग्रक्तशुक्रादिभिः । संपूर्ण रमणीशरीरमशुचि प्रीत्यर्हमेतन्न तद् ॥ . रोगोत्पादककारणेषु नवसु स्थानांगगेषूदिता । भोगासक्तिरनिष्टरोगततिदा हेयो विकल्पोऽस्य तत् ॥४॥