________________
९०
श्री विजयपद्मसूरिविरचितः
गुरूणां नेमिसूरीणां, पादसेवाप्रभावतः । पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तुतिं व्यधात् ॥ १२ ॥
श्री सेरीसापार्श्वनाथाष्टकम् ॥
(शिखरिणीवृत्तम्)
स्मृतेो यस्य प्रभवति महासिद्धिरखिला, प्रभावाढ्या मूर्त्तिः प्रशमविशदास्तिक्यफलदा । सदार्च्या देवेन्द्रैर्नरपतिभिरानन्दनिवहैः, स्तुवे श्रीसेरीसापतिमहमनन्तार्थकलितम् ॥ १ ॥
(पंचचामरवृत्तम् )
वरेण्यलक्षणाश्चि तेष्टवाग्गुणालिभूषितं, विशुद्धबोधमालिनं प्रशस्तवर्णभासुरम् । भवाब्धिपारदायिनं परोपलक्ष्यभावनं, भजामि पार्श्वनाथ मिष्टदायिनं तमन्वहम् ॥ २ ॥
गुणालयक्रमाप्तदर्शनादिमुक्तिसाधनं, दृष्टभावभावितं सुनिश्चितार्थदेशकम् । समीष्टदानकल्पपादपं मनोमलापहं, भजामि पार्श्वनाथ मिष्टदायिनं तमन्वहम् ॥ ३ ॥
सदष्टप्रातिहार्यशोभितातिशायिसद्गुणं, समस्तविघ्नवारकं सुसम्पदालिधारकम् ।