________________
श्री विजयपद्मसूरिविरचितः लब्ध्वा पुण्योदयेनाध, दर्शनं वीरनाथ ते ॥ दूरीकृता मया पोडाः, सर्वाश्चित्तशरीरयोः ॥ १० ॥ भवंतु भद्रकार्याणि, श्री वीरस्य प्रसादतः ॥ श्रीसंघे मंगलं भूया-देवं मधुमतीस्थले ॥ ११ ॥ यदर्जितं मया पुण्य, मेतत्स्तोत्रविधानतः ॥ तेन पुण्येन श्रीसंघे, भूयान्मंगलविस्तरः ॥१२॥ गुरूणां नेमिनरीणां, पूज्यानां सत्मसादतः॥ पद्मसूरिर्महोल्लासान्महावीरस्तुतिं व्यधात् ॥१३॥ ॥ श्री वैराग्य षोडशकम् ॥
( अनुष्टुब्बृत्तम् ) भव्यासाद्य जिनेशानं, देवं त्यागिगुरुं तथा ॥ त्रिपुटीशुद्धधर्म च, प्रमादाचरणं त्यज ॥१॥ कालेऽनन्ते गते शुभ्रां, सामग्रीं पुण्ययोगतः ॥ लब्ध्वा तां निष्फलीकुर्युः, प्राज्ञाः के भद्रकाङक्षिणः ॥२॥ उत्तमां धर्मसामग्री, येऽत्र कुर्वति निष्फलां ॥ दुर्जना निंदनीयास्ते, सद्भिर्धर्मपरायणैः ॥ ३॥ त्यक्त्वाऽनुकृतिमेषां च, मला दुर्गतिसाधनं ॥ सद्भावनाविवेकेन, सत्कृति परिभावय ॥ ४॥ साधनादर्शनादीनां, दोषाणां परिहारतः ॥ सन्तोऽनवद्यसाध्यस्य, सिद्धिमचवतेऽञ्जसा ॥५॥