________________
CO
श्री विजयपद्मसूरिविरचित
भेदाभेदमयेऽपि वस्तुनि गताभेदं यदा वादिनो, । नित्यानित्यमयेऽपि वस्तुनिचये ध्रौव्यं गतास्ते यदा ॥ दृष्टान्तं गुडनागरस्य गदितं ते श्री श्रुतोक्तेस्तदा । नम्राः शुश्रुवुरापुरप्यनुपमं हर्ष नयौघश्रिताः ॥७॥ किं कल्याणमवाप्नुवन्ति नहि ते सन्न्याय्यमार्गानुगा,। नो किन्तु प्रभवेदुपास्तिनिरतास्ते मार्गबोधंविना ॥ सत्पुण्यं करुणा तपोऽतिविमलं निर्यामकत्वान्वितं । धैर्य धर्मकथित्वमेत दिह ते ज्ञात्वा भवेयुग्तथा ॥८॥ श्रीतीर्थकरनामबन्धसमये याऽऽसी द्वरा भावना । लब्धा भावनया तयैव विशदा सा साध्यसिद्धिस्त्वया ॥ सत्संस्कारवती क्रिया न विफला तेनैतदज्ञासिषम् । सर्वे दार्शनिका न यस्य विषयेऽङ्गीकुर्वते भिन्नताम् ॥९॥ सोऽहं शासनतीर्थभक्तिर सको निर्धीषणो निर्गुणी, । त्वत्पादाम्बुज संश्रितोऽपि निरतो लब्धोपकारस्मृतौ ॥ कर्तव्योऽस्य कृपां विधाय विधिनोद्धारो ममातो विभो?। नोपेक्षां शरणागतस्य गुरवो भव्या यतो कुर्वते ॥१०॥ गुरूणांनेमिसूरीणां, पूज्यानां सत्मसादतः ॥ पद्मसूरिश्वकारेदं, श्रीमद्वीराष्टकं मुदा ॥ ११॥ .