________________
सिद्धान्तकौमुदी। [कृदन्ते कृत्य२८३१ कृत्याः । (३-१-६५) अधिकारोऽयं खुलः प्राक् । २८३२ कर्तरि कृत् । (३-४-६७) कृत्प्रत्ययः कर्तरि स्यादिति प्राले २८३३ तयोरेव कृत्यक्तखलाः । (३-४-७०) एते भावकर्मणो रेव स्युः । २८३४ तव्यत्तव्यानीयरः । (३-१-६६) धातो रेते प्रत्ययाः स्युः । तकाररेफौ स्वरायौँ । एधितव्यम् एधनीयं स्वया । भावे प्रौत्सर्गिकमेकवचनं वात् । कृत्याः । कृत्यसंज्ञका इत्यर्थः । ततश्च 'प्रैषातिसर्गप्राप्तका लेषु कृत्याश्च, अh कृत्यतृचश्च, शकि लिङ् च' इत्यादिषु प्रवर्तते। एवुलः प्रागिति । 'एवुल्तृचौ' इत्यतः प्रागित्यर्थः । एतच्च भाष्ये स्पष्टम् । कर्तरि कृत् । अर्थनिर्देशोऽयम् । इति प्राप्ते इति । वक्ष्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञदत्वात्तेषां कर्तरि प्राप्तावित्यर्थः । तयोरेव कृत्यक्तखलाः । 'लः कर्मणि च भावे च-' इति सूत्रोपात्ते भावकर्मणी तच्छब्देन परामृश्येते, तदाह एते भावकर्मणोरेवेति । न तु कर्तरीति भावः । वैशेषिकत्वादेव सिद्धे एवकारस्तु तव्यदादीनां कृत्संजकतया प्राप्तकर्बर्थकत्वस्याभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संजाया अबाधं गमयति । तव्यत्तव्यानीयरः । तव्यत् तव्य अनीयर् एषां द्वन्द्वः । प्रत्ययाः स्युरिति । ते कृत्संज्ञकाः कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम् । स्वरार्थाविति । 'तित्स्वरितम्' इति 'उपोत्तमं रिति' इति च खरावशेषार्थावित्यर्थः । निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण श्रायुदात्तत्वमेवेति बोध्यम् । भावे उदाहरति एधितव्यमिति । त्वत्कतका एधनक्रियेत्यर्थः । ननु 'लः कर्मणि च-' इत्यत्र असत्त्वभूतस्यैव भावस्य ग्रह णम् . तिवाच्यभावनाया असत्त्वरूपताया उक्तत्वात । ततश्च तस्य भावस्य असविनेति व्याख्यैव ज्यायसीति दिक् । कृत्याः। अत्र प्रत्यय इत्यादिवत्कृत्य इत्यधिकारेणापीष्टसिद्धबेहवचनमनुक्तप्रत्ययसमुच्चयार्थम् , तन केलिमरादयो ज्ञापकसिद्धा इति नोपसंख्येया इत्याहुः । एवुलः प्रागिति । एवुल्तृचौ' इत्यतः प्रागित्यर्थः । 'रोगाख्यायां रावुल बहुलम्' इति नावधिः, प्रत्यासत्तिन्यायात् । अवधिविशेष ज्ञापकं तु 'अर्हे कृत्यतृचश्च' इत्यत्र कृत्यात्पृथक् तृचो प्रहणमेव । न चैवं तृचोऽकृत्यत्वेपि एवुलः कृत्यत्वं दुर्वारं स्यात् , इष्टापत्तौ तु 'तयोरेव-' इति भावकर्मणोरेव एवुल् स्यान तु कर्तरीति वाच्यम् , भाष्ये एव एवुलः कृत्यत्वमाशङ्कय योगापेक्षं ज्ञापकमिति सिदान्तितत्वात् । वृत्तिकारस्तु सूत्रे प्राग एवुल इति प्रचिक्षेप । तयोरेव । तच्छुब्देन भावकर्मणी परामृश्यते एवकारस्तु कर्तयोगव्यवच्छेदार्थस्तदाह भावकर्मणोरेवेति । यद्यप्यतत्तक्रकौण्डिन्यन्यायेनेव लभ्यते, तथापि स्पष्टप्रतित्यर्थमेवकार इत्येके । तन्न्यायस्यानित्यत्वज्ञापनार्थमित्यन्ये । खरार्थाविति । तकारः 'तित्स्वरितम्'