________________
प्रकरणम् ६५ ]
बालमनोरमा-तत्त्वबोधितासहिता ।
सरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात्त्र्यधिकारोक्तं विना
}
"स्मिन् धात्वधिकारे इत्यादिना । स्त्रीशब्दः स्वर्यते, तदाह स्त्र्यधिकारोक्तं विनोति । 'त्रियां क्तिन्' इति वक्ष्यमाणस्त्र्यधिकारस्थमपवादं विनेत्यर्थः । स्त्र्यधिकारस्थस्तु ऋःसरूपः प्रत्यय उत्सर्गस्य नित्यमेव बाधकः इति भावः । 'रावल्तृचौ' इत्युत्सर्गः । ‘इगुपधज्ञाप्रीकिरः कः' इत्यपवादः । तद्विषये रावुल्तृचावपि भवतः । विक्षिपः । विक्षेपकः । विक्षेप्ता । सरूप इति किम् 'कर्मण्यण' इत्युसर्ग: । 'श्रतोऽनुपसर्गे कः' इत्यपवादः । स तु सरूपत्वान्नित्यं बाधक एव । गोदः । कम्बलदः । ‘नानुबन्धकृतमसारूप्यम्' इति वचनाद् अनुबन्धो न सारूप्य तिब न्धकः । अस्त्रियां विम्, ‘स्त्रियो क्लिन्' इत्युत्सर्गः । ' प्रत्ययात्' इति प्रत्ययान्ताद्विहितः प्रकार प्रत्ययः तस्य अपवादः । स बाधक एव भवति । चिकीर्षा । व्यावकोशी व्याकुष्टिः इयत्र तु 'कर्मव्यतिहारे णच् स्त्रियाम्' इति णच् क्लिनो बाधको वा भवत्येव । स्त्रियामिति निषेधस्तु नास्ति, तस्य णचः 'स्त्रियाम्' इत्यधिकारोक्तत्वामालकारोऽपि तत्रैवेति समानविषयत्वादुभयोर्बाध्यबाधकभावः स्यात् । किं च वर्णात्कार इत्युत्सर्गः, स च 'रादिफः' इत्यनन बाध्येत । न चेष्टापत्तिः, 'रकारादीनि नामानि शृण्वती मम पार्वति' इत्यादिप्रयोगविरोधात् । श्रमुमेवार्थे मनसि निधाय हरदत्ताशिभः परिभाषेयमित्युक्तम् । एतेन 'शकि लिङ् च' इति ज्ञापकाद्वासरूपविधेरनित्यत्वेन स्त्र्यधिकारदुत्तरेषु क्वल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति सिद्धान्तः संगच्छत इति दिक् । 'वासरूप-' इत्यत्राऽसरूप इति च्छेदः । अन्यथा लाघवे विशेषाभावे - नासंदेहाय सरूपो वैति ब्रूयादित्याशयेनाह असरूप इति । श्रसरूप इति किम् कर्मण्यण्' इत्युसर्गः । ‘आतोऽनुपसर्गे कः' इत्यपवादः । स तूत्सर्गस्य नित्यं बाधको यथा स्यात् । गोदः । कम्बलदः । न च कृतेऽप्यसरूपग्रहणे श्रराकयोरप्यसरूपत्वाअष्टसिद्धिरिति वाच्यम्, 'नानुबन्धकृतमसारूप्यम्' इति सिद्धान्तात् । श्रस्त्रियामित्यत्र श्रीशब्दः स्वर्यते स्वरेतेन चाधिकारावगतिरित्याशयेनाह स्त्र्यधिकारोक्तं विनेति । तेन 'स्त्रियां क्तिन्' इत्युत्सर्गम् 'अप्रत्ययात्' इत्यपवादो नित्यं बाधते । चिकीर्षा । जिहीर्षा । नन्वस्त्रियामित्यत्र स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञाय स्वरितेनाधिकारावगतिरित्यादिव्याख्यां विहाय स्त्रियामभिधेयायां वासरूपविधिर्नेति स्त्रियामित्येवं शब्दमुच्चार्य विहिते वासरूपविधिर्नेति वा व्याख्यायतामिति चेत् । अत्राहुः - स्त्रियां वाच्याया - मिति पक्षे लव्या लवितव्येति यतो विषये तव्यो न स्यात्, द्वयोरपि इह स्त्रीवाचक - त्वात् । स्त्रियामिति शब्दोच्चारणपक्षे तु व्यावक्रोशी व्यावकुष्टिरिति कर्मव्यतिहारे चो विषये क्लिन्न स्यात् । द्वयोरपि स्त्रियामित्युच्चार्य विधानात् । ततश्च स्त्र्यधिकारोक्तं