________________
प्रकरणम् ६४ ]
बालमनोरमा तत्त्वबोधिनीसहिता । [ ६४३
सिद्धाप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । सिद्धाप्रयोगे किम्श्रलं कृष्णो हस्तिनं हनिष्यति । २८१२ विभाषा धातौ सम्भावनवचने 5यदि । ( ३-३-५५) पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात्, न तु यच्छन्दे । पूर्वेण नित्यं प्राप्ते वचनम् । सम्भावयामि भुञ्जीत भोषयते वा भवान् । यदि किम्-सम्भावयामि यद् भुञ्जीथास्वम् । २८१३ हेतुहेतुमतोर्लिङ् । ( ३-३ - १५६ ) वा स्यात् । कृष्णं नमेच्चेत्सुखं
,
ज्ञानं संभावनमित्युच्यते । संभावनमिति प्रथमान्तं तु अलमिति प्रथमान्तेन विशेध्यते । इतिहतौ तदाह तच्चेदिति । तत्संभावनम् अलं पर्याप्तिहेतुकं चेदित्यन्वयः । विधातानार्थकाद् 'मतिबुद्धि-' इति वर्तमाने कर्मणि के सिद्धशब्दः । सिद्धे गम्यमानेऽप्पलमर्थे प्रयोगो यस्य स सिद्धाप्रयोगः, तस्मिन्निति विग्रहः । श्रलमि इति सप्तम्यन्तमत्र वेशेष्यसमर्पक संबध्यते । अलंशब्दप्रयोगं विनापि तदर्थे गम्यमाने इति यावत् ताद सिद्धाप्रयोगे सतीति । श्रलमिति शेषः । अपि गिरिमिति । बलवन्तं पुरुषमधिकृत्य अत्युक्तिरियम् । प्रायेण शिरसा गिरिं भेत्तुमयं समर्थ इत्यर्थः । गिरिभेदसंभावनस्य सामर्थ्यहेतुकत्व द्योतकः श्रपिशब्दः । अत्र लिड्निमित्तसत्त्वात् क्रितिपत्तौ भूते लृङ् । 'अलमिति संभावने सिद्धाप्रयोगश्चेत्' इति सुवचम् | विभाषा धातौ । श्रयदीति छेदः, तदाह न तु यदिति । लिङभावे लृट्, 'शेषे लड दो' इत्यतस्तदनुवृत्तेः । संभावयामीति । प्रायेण भोक्तुं समर्थ इत्यर्थः । हेतुहेतुमतोर्लिङ् । पूर्वसूत्राद्विभाषानुवृति मत्वाह वा स्यादिति ।
त्यावर्त्य द्वितीयस्यैव विपरिणामात्सर्वेष्ट सिद्धिरिति । संभावनं क्रियासु योग्यताध्यव - सायः । अलमितीति । तच्च संभावनं समर्थ इति चेद् भवति तदा लिङ् स्यादित्यर्थः । सिद्धेति । सिद्धः श्रप्रयोगो यस्य तस्मिन्नलमि सति । यत्रालंशब्दो न प्रयुज्यते तदर्थस्तु गम्यते तत्रेति फलितोऽर्थः । मनोरमायां तु 'अलमिति संभावने सिद्धाप्रयोगवत्' इति सूत्रयितुमुचितमित्युक्तम् । तत्र सिद्धस्याप्रयोग इति विग्रहः । कस्याप्रयोग इत्याकाङ्क्षायामर्थादलंशब्दस्येति बोध्यम् । अपि गिरिमिति । संभावनाद्योतको ऽपिशब्दो गिरिविदारणे पर्याप्त इति संभवनात्र गम्यते । कालसामान्येऽयं लिङ् । लृङ् प्राग्वः । श्रपि गिरिं शिरसाऽभेत्स्यत् । श्रलमिति चेत् किम् प्रायेण गमिष्यति । विभाषा धातौ । संभावनमुच्यते येन तत्संभावनवचनं तस्मिन्धातौ । संभावनार्थकधातावित्यर्थः । भुञ्जीथास्त्वमिति । अत्र पूर्वेण नित्यो लिङ् । घातौ किम्, संभावनवचने स्वरूपग्रहणं माभूत् । कृते तु संभावनवचने तद्वाचकधातोर प्रयोगादिह विभाषा न भवति । भुञ्जीत भवान् । पूर्वेणात्र नित्यो लिङ् । हेतुहेतु ।
1