________________
प्रकरणम् ६३] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२१ चान्यत्रात्मनेपदात्' ( वा १८८०) । भूषावाचिनो किरादीनां समन्तानां च यचिणौ चिरवादिद च नेति वाच्यमित्यर्थः । अलङ्कुरुते कन्या ! अलमकृत । श्रधांकरते हतो । ॐ वाकीट । गिरते । अगीष्टं। श्राद्रियते। थाहत । किरादिस्तुदाधन्तर्गणः। चिकीर्षते कटः । चिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिफियापेपमिह कर्मस्थक्रियत्वम् । २७७० न रुधः। (३-१-६४) तत्र प्रतियोगित्वं फलम् , संबन्धो व्यापारः । प्रतियोगित्वरूपफलाश्रयत्वाद् द्वितीयेति समाइितं शब्देन्दुशेहरे। अत्र भाष्यप्रयोगादेव योगाद् द्वितीयेत्यन्ये । भूषाकर्मेति वार्तिकम् । भूषाकर्म, किरादि, सन् एषो द्वन्दः । अन्यत्रेति प्रथमान्तात्स्वार्थ त्रल ।
आत्मनेपदाद् अन्यत्कमकार्यमिति लभ्यते । भूषा कर्म क्रिया येषां वाच्यतया ते भूषाकर्माणो धातवः, भृषणक्रियावाचिनामिति यावत् , तदाह भूषावाचिनामित्या. दिना । अलंकुरुते कन्येति । खयमेव अन्यप्रयत्नं विना भूषणक्रियावतीत्यर्थः । अत्र भूषार्थकत्वात् कमेकतरि तळेव, न तु यक् । अलमकृतेति । अत्र तमेव न तु चिण् । लुटि तु अलकत्येव । न तु चिरवदिटौ। अवकिरते हस्तीति । हस्तिनमवकिरति कुस्मादिरित्वत्र मुख्यकर्तरि लकारः । तत्र हस्ती कर्म । तस्य कर्तृत्वविवक्षायां स्वयमेव पुरुषप्रयत्नं विना वृक्षादिसमीपं गच्छन् पुष्पादिभिः अवकीर्णवान् भवतीत्यर्थः । अत्रापे तदेव, न तु यगादि । अवाकीष्टेति । 'लिङ्सिचोरात्मने. पदेषु' इति वेट् । विरते इति । ओदनं स्वयमेवेति शेषः। 'गृ निगरणे' अयं किरादिः । आद्रियते इति । 'दृङ् श्रादरण' अयमपि किरादिः। शप्रत्यये 'रिङ शयग्लिक्षु' इति रिङ् । अतिथिमाद्रियते इति मुख्यकर्तरि । आद्रियतेऽतिथिरिति कर्मकर्तरि खयमेव आदरणाश्रय इत्यर्थः। अत्र यद्यपि शे यकि च न विशेषः । तथापि न्याय्यः श एव, यको निषिद्धत्वात् । खरे वा विशेषः। तङ् तु ङित्त्वादेव सिद्धः । अतिथरभिहितत्वात प्रथमेति विशेषः । प्रादृतेति। चिणोऽनेन निषेधे 'हखादशात्' इति चिो लोपः। 'उश्च' इति कित्त्वम् । अथ समन्तस्योदाहरति चिकीर्षते कट इति। स्वयमेव कर्तुमिच्छाविषय इत्यर्थः । नन्च्छिायाः पुरुषरूपकनिष्ठत्वात् कटरूपकर्मनिष्ठत्वाभावाद् इच्छायो सत्यामसत्यां च कटे कर्मणि वैलकर्मशब्दः क्रियावाचीत्याह भूषावाचिनामिति । अन्यत्रेति । आत्मनेपदादन्यस्य निषेधः, आत्मनेपदमेव भवतीत्यर्थस्तदेतदाह यक्चिणाविति । अवाकी:ऽति । 'लिङ्सिचौ-' इति वेद । आद्रियत इति । तुदादित्वाच्छे "रिङ् शयग्लिक्षु' इति रिलि इयङ्। पादृतेति । 'उश्च' इति कित्त्वम् । 'हवादङ्गात्' इति सिचो लोपः । न रुधः। 'चिण ते पदः' इत्यतश्चिणनुवर्तते । 'अचः कर्मकर्तरि' इत्यतो.