________________
प्रकरणम् ६१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५८७ २७५५ न पादम्याङ्यमाङयसपरिमुहरुचिनृतिवद्वसः । (१-३-८९) एभ्यो रयन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवस्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । मायामयते । प्रायासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते । 'धेट उपसंख्यानम्' (वा १६२) । 'धापयेते शिशुमेकं समीची'। त्किम् ? कटं करोति, तं प्रयुङ्क्ते कटं कारयते । न पादम्याङ्यम् । पा दमि प्राङयम् श्राब्यस् परिमुह रुचि नृति वद् वस् एषां समाहारद्वन्द्वात्पञ्चमी । प्राप्तस्य निषेध्यत्वात् प्राप्तिमुपपादयति पियतिर्निगरणार्थ इति । ततश्च निगरणचलनार्थेभ्यः-' इति प्राप्तिरिति भावः। इतरे इति । दम्यादयः अणौ चित्तवत्कर्तृका अकर्मकाश्चेत्यर्थः । ततश्च 'अणावकर्मकाचित्तवत्कर्तृकात्' इति प्राप्तिरिति भावः । नृतिरिति । नृतिश्चलनार्थकः । अणौ चित्तवत्कर्तृकः अकर्मकश्चेत्यर्थः । सूत्रद्वः येनेति । 'अणावकर्मकात्-' इति 'निगरणचलनार्थेभ्यश्च' इति च सूत्रद्वयेनेत्यर्थः । पाययते इति । 'शाच्छासाह्वाव्यावेपी युक्' इति पुकोऽपवादो युक् । दमयते इति । 'जनीजृष्कसुरोऽमन्ताश्च' इति मित्त्वाद्धस्वः। ननु दिवादी दमिः सकर्मक इत्युकम् । अतः कथमिद 'श्रणावर्मकात्-' इति प्राप्तिरिति चेद् दमेः परस्मैपदनिषेधादेव दमिरकर्मकोऽपि । अतो दमिः सकर्मक इत्यस्य न विरोधः। आयामयते इति । 'यमोऽपरिवेषणे' इति मित्त्वनिषेधान्न ह्रस्वः। वासयते इति । 'वस निवासे' इति भौवादिकस्यैवात्र प्रहणम् । न तु 'वस आच्छादने' इत्यादादिकस्यापि, तस्य दिह णेरिति वर्तते बुधादिभ्यश्च हेतुमागणरेव संभवतीति तदन्तादेवायं विधिः । अणाविति प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव न्याय्यः। तेन चुरादिण्यन्ताद्धेतुमराणो परस्मैपदं भवत्येवेति भाष्यादौ स्थितम् । तथा च हेतुमण्णः प्राग् योऽकर्मको हेतुमएण्यन्तभिन्नस्तस्माद्धतुमण्णावात्मनेपदं नेति फलितोऽर्थः । अकर्मकात्किम् , कटं यः करोति तं प्रयुङ्क्ते कटं कारयति । चित्तवत्कर्तृकादिति किम्, शुष्यन्ति व्रीहयस्ताऽशोषयते। न पाद । चित्तवत्कर्तृका अकर्मका इति । दिवादी दमिः सकर्मक इत्युक्तम् , इह त्वकर्मक इति पूर्वोत्तरविरोधो यद्यप्यस्ति, तथापि कर्मणः कर्तृ. त्वविवक्षायो दमिरत्राकर्मक इत्याहुः। पाययत इति । 'शाच्छासा-' इति युक् ।
आयामयत इति । 'यमोऽपरिवेषणे' इति मित्त्वनिषेधः । वासयत इति । वस निवासे इत्यस्य प्रहणम् , वस आच्छादने इत्यस्य तु न निषेधः । सकर्मकत्वेन तस्य प्राप्त्यभावात् । कर्मकर्तृत्वविवक्षायामकर्मकत्वेऽपि लुग्विकरणपरिभाषया नात्र प्रहणमित्याहुः । समीची इति । प्रथमाद्विवचमम् । 'वा छन्दसि' इति पूर्वसवर्णदीर्घः ।