________________
२७० ]
सिद्धान्तकौमुदी ।
[ अदादि
शब्दे । शिते । पिजि १०२८ वर्णे | संपर्चन इत्येके । उभयत्रेत्यन्ये । श्रवयव इत्यपरे । अव्यक्ते शब्द इतीतरे । पिङ्क्ते । पृजि इत्येके । पृक्रे । वृजी १०२६ वर्जने । दन्त्योष्ठयादिः । ईदित् । वृक्रे वृजाते । वृक्षे । 'इदित्' इत्यन्ये । वृङ्क्ते । पृची १०३० संपर्चने । पृक्ते । षूङ् १० ३१ प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता, सविता । 'भूसुवो:-' (सू २२२४ ) इति गुणनिषेधः । सुवै । सविषीष्ट । श्रसविष्ट, असोष्ट । शीङ् १०३२ स्वमे । २४४१ शीङः सार्वधातुके गुणः । ( ७४ -- २१ ) 'क्क्ङिति च ' ( सू २२१७ ) इत्यस्यापवादः । शेते शयाते | २४४२ शीङो रुट् । ( ७-१-६) शीङः परस्य झादेशस्यातो रुडागमः स्यात् ।
निञ्जिष्यते । निक्लाम् । निङ्क । निञ्जीत । निञ्जिषीष्ट । श्रनिञ्जिष्ट । श्रनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति । ऋदुपधोऽयम् । वृजीधातुः ऋदुपध ईदित्, अतो नुम् नेति भावः । पृची संपर्चन इति । ऋदुपधोऽयम् । पपृचे इत्यादि । ईरादयः पृच्यन्ता अनुदात्तेतो गताः । षूङ्घातुः षोपदेशः, वेट्, ङित्वात्तङ् । सूते इति । सुवाते सुवते । नूषे सुवा सूध्वे । सुवे सूवदे सूमहे । सुषुविषे इति 'स्वरति -' इति इड्विकल्पं बाधित्वा 'श्रूयुकः किति' इति निषेधे प्राप्ते झादिनियमान्नित्यमिट् ' स्वरतिसूति-' इति इड्विकल्पं मत्वाह सोता, सवितेति । तिङस्तासा व्यवधानाद् 'भूसुवो:-' इति न गुणनिषेध इति भावः । सोष्यते सविष्यते । सूताम् । सुवाताम् । सूत्र सूध्वम् । आटः पित्वाद् गुणे प्राप्ते प्राह भूसुवोरिति । सुवै इति । सुवावहै वाम है । सूत सुवीत । सविषीष्ट सोषीष्ट इत्यादि स्पष्टम् । शीङ् स्वप्ने । सेद् ङित्त्वात्तङ् । शीङः सार्वधातुके । स्पष्टम् । 'सार्वधातुकार्धधातुकयोः' इत्येव सिद्ध किमर्थमिदमित्यत श्राह क्क्ङिीति चेत्यस्यापवाद इति । झस्य प्रदादेशे सति शे अते इति स्थिते शीङो रुट् । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते । 'प्रदभ्यस्तात्' इत्यतः श्रदित्यनुवृत्तं षष्ठ्या विपरिणम्यते, तदाह शीङः परस्य भादे - शस्येति । रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति । ' षीध्वं तु शिञ्जितम्' । 'मौर्वी ज्या शिञ्जिनी गुणः' इति चामरः । सुषुविषे इति । 'स्वरति -' इति विकल्पं बाधित्वा 'श्रयुकः किति' इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । शीङ् खमे । क्ङिति चेत्यस्येति । अन्यत्र 'सार्वधातुकार्धधातुकयोः ' इत्यनेन सिद्धमिति भावः । शीङो रुट् । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते । 'अदभ्यस्तात्' इत्यतोऽदिति च । तथा चेष्टानुरोधेनादिति प्रथमान्तस्य षष्ठयन्तत्वमाश्रित्य व्याचष्टे झादेशस्यात इति । झस्यैव रुडागमे तु श्रदादेशो दुर्लभ इत्यदि