________________
लघुसिद्धान्तकौमुद्याम् 'तुल्यबलविरोधे परं कार्य स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धमिति 'रोरि' इत्यस्यासिद्धत्वादुत्वमेव । 'मनोरथः।
११४ एतत्तदोः सुलोपोऽकोरनञ् समासे हलि ६ । १ । १३२ ।
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नसमासे । एष विष्णुः । स शम्भुः । अकोः किम् एषको 'रुद्रः। अनञ् समासे किम-असः शिवः" । हलि किम्-एषोऽत्र ।
११५ सोऽचि लोपे चेत् पादपूरणम् । ६।१ । १३४ ।
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत ॥ 'सेमामविढि प्रभृठिम् । सैष दाशरथी रामः।
इति विसर्गसन्धिप्रकरणम् । १-अन्यत्रान्यत्र लब्धावकाशयोरेकत्र समावेशस्तुल्यबलविरोधः' यथा चात्रैव 'रोरि' इति सूत्र हरीरभ्य इत्यादौ लब्धावकाशं 'हशि च' इति च 'शिवो वन्द्यः' इत्यत्र लब्धावकाशं तयोर्द्धयोश्व 'मनोरथः' इत्यत्र समावेशः । प्रत्र सूत्र अपरं कार्यमित्यपि च्छेदः । अत एव तत्तदिष्टस्थलेषु पूर्वविप्रतिषेधोऽपि भवति । २-मनोरथः-'मनस--- रथः' इति स्थितौ सस्य रुत्वे कृते 'हशि च' इति उत्वे 'रो रि' लोपे च प्राप्ते 'विप्रतिपेथे पर कार्यम' इति परत्वाद् लोपे एव युक्तिसिद्ध, पूर्वत्रासिद्धम्' इति हशि चेत्यस्य दृष्टौ 'रोरि' इत्यस्यासिद्धत्वाद् उत्वमेव स्यात् । प्रकारोकारयोगुणे मोकारे सिद्ध रूपं 'मनोरथः' इति । ३-एषस + विष्णः। सस्+शम्भुः । एवम् एष शोभते एष ददाति, स चलति, स च, इत्यादि । ४=एषकस + रुद्रः । अत्र प्रकच् प्रत्ययः "हशि च" इति रोरुत्वे सिद्धः । ५-प्रसस् + शिवः। ६-एषस् +अत्र - एंषोऽत्र, एवम्मोऽहम् । ७-लोपे सत्येव' इत्यवधारणेन इह न-'सोऽहमाजन्मशुद्धानाम्' लोपे सत्यसत्यपि च छन्दः पूत्तः । ८ -सस + इमामविड्ढि "। --सैप दाशरथिः -'सम् +ऐषः' इति स्थिती 'सोऽचि लोपे चेत् पादपूरणम्' इति सलोपे वृद्धौ सत्यां सैष दाशरथिरिति । प्रत्रायं सपनः श्लोकः-- मैष दाशरथी रामः, सैप राजा युधिष्ठिरः ।
सैप करें महादान, सैष भीमो महाबलः ।
इति विसर्गसन्धिः। ११४-ककार रहित एतत् और तत् शब्द सम्बन्धी सु का लोप होता है हल् परे रहते; ना समास में नहीं होता।
११५-तत् शब्द सम्बंधी सु का लोप होता है अच् परे रहते, यदि लोप होने पर ही पाद-पूर्ति होती हो। इति विसर्गसन्विः