________________
३४४
लघुसिद्धान्तकौमुद्याम् 'अपरे पुनः सज्ञाप्रकरणं प्रकृतिभावप्रकरणश्चापि लघुकौमुधुक्तसन्धित्रये सम्मेल्य प्रकरणपञ्चकमिदं पञ्चसन्धिप्रकरणमुच्यत इति समादधति । सज्ञाप्रकरणस्य सन्धिस्वाभावेऽपि तदुपोद्घातत्वेन तदन्तःपातः । प्रकृतिभावस्य चाऽसन्ध्यपवादत्वेन तत्समानदेशत्वमुत्सर्गापवादयोरिति समानदेशत्वनियमाद् विधिपूर्वको निषेध इति नियमाच सम्धिसम्बन्धित्वेन सन्धित्वमेवेति छत्रिणो यान्तीतिवत् पञ्चसन्धिव्यवहारो भाक्त इति सदाशयः। यद्वा पञ्चानां परस्परसापेक्षाणां सज्ञाद्यवयवाना सन्धिः समुच्चयो यस्मिअवयविनि (प्रकरणे) तसञ्चसन्धिप्रकरणमित्युच्यते परम्परया। पाणिनीयव्याकरणाचाय्यकालविचारः
पाणिनिः एतद्व्याकरणमूलभूतसूत्राणां कर्ता 'परशुपुर' (पेशावर) समीपवति 'शलातुर' (लाहुर) ग्रामाभिजनो दाक्षिपुत्रो भगवान् पाणिनिः, कलेरष्टम्यां शताब्द्यां समभूदिति पूर्वविद्वत्समाजसिवान्तः ।
कात्यायन: पाणिनीयव्याकरणे वात्तिककर्ता वररुच्यपरनामाऽयं कात्यायनो मुनिः कोशिशताब्दया प्रादुरभवदिति पगिडतश्रीरामप्रपन्नशास्त्रिकृतनिरुक्तभूमिकातोऽवगम्यते। केचित्तु पाणिनिसमकालत्वमेवास्य प्रतिपादयन्ति।
पतञ्जलिः गोनदंदेशीयः (प्रयञ्च गोनर्ददेशः काश्मीरेष्विति प्राश्चः, अयोध्याप्रान्ते इति पौरस्त्याः) महाभाष्यकारः शेषावतारत्वेन विख्यातो भगवान् पतञ्जलिः कले: सप्तविशशताब्दयां खोष्टजन्मतश्च ४५० वर्षाणि पूर्व-समजायतेति निरुक्तभूमिकायां पं० श्रीरामप्रपन्नशास्त्रिणः । कलेश्चतुर्विशशताब्दयामभूदिति श्रीदाधिमथाः ।
भट्टोजिदीक्षित वरदराजौ वैयाकरणसिद्धान्तकौमुदीकर्ता श्रीभट्टोजिदीक्षितः श्रीलक्ष्मीधरमहसूनुः कान्यकुब्जेश्वरस्य गोविन्दचन्द्रदेवस्य समानकालिकस्तेन खीष्टीयद्वादशशताब्दोशेषभागे त्रयोदशे शतके समभूदिति महता प्रयासेन साधितं श्रीपण्डितज्वालाप्रसादमिनेण भाषाटीकासहित सिद्धान्तकौमुदीभूमिकायाम ।
प्रो० वेवर-डाक्टरजलिमतानुसारच खीष्टीयसप्तदशशताब्दी श्रीभट्टोजिदीक्षितस्य समयः । मध्यसिद्धान्तकौमुदीकर्ता श्रीवरदराजश्व भट्टोजिदीक्षितस्य शिष्य इति तस्य सामानकालिक एवातस्तस्य कालनिर्णयो न पृथक क्रियते ।
१-अपरे - कर्मकाण्डप्रभाकराः पं० श्रीरविदत्तशर्माणः 'खन्ना' स्थाः ।