________________
परिशिष्टम्
३४३
वार्तिकलक्षणम्उक्तानुक्तदुरुक्कानां चिन्ता यत्र प्रवर्तते । त ग्रन्थं वार्तिकं प्राहुर्वातिकज्ञा विचक्षणाः ॥ यथा-'मोतो णिदिति वाच्यम्', 'छत्वममीति वाच्यम्' 'यण: प्रतिषेधो वाच्यः'।
भाष्यलक्षणम्सूत्रार्थों वण्यते यत्र वर्णैः सूत्रानुसारिभिः ।
स्वपदानि च वय॑न्ते भाष्यं भाष्यविदो विदुः ॥ तच्च प्रकृते महामुनि-पतञ्जलि-विरचितं व्याकरणमहाभाष्यं सर्वप्रसिद्धमेव ।
व्याख्यानलक्षणम्पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना। माक्षे पश्च समाधानं व्याख्यानं षडविधं मतम् ।। तच्च पूर्वाचार्यविरचितं काशिकाप्रक्रियाकौमुदीसिद्धान्तकौमुद्यादिरूपं प्रथितमेव ।
तदेवं सूत्रवार्तिकभाष्यव्याख्यानादिविषया सर्वविध-लौकिक-वैदिकशब्दसाधुत्वप्रतिपादनपरं पाणिनीयं व्याकरणं सर्वेष्वपि व्याकरणेषु प्रातिशास्येषु च मून्यतममिति नाविदितं विदुषाम् । तस्येयं प्रवेशिकास्थानीया लघुसिद्धान्तकौमुदी।
व्याकरणस्याऽनुवन्धचतुष्टयम्सकलपुरुषार्थ साधनं वेदः, स च मन्त्रब्राह्मणात्मक-शनराशिरूपः, तदनु सर्वाएयपि शास्त्राणि शब्दराशिरूपाण्येवेति वेदशास्त्रादिज्ञानाय प्रवृत्तमिदं शब्दशास्वम = व्याकरणं सर्वेषामध्येयतामापद्यत इति सिद्धमस्यानुवन्धचतुष्टयम्
१- शब्दज्ञानं प्रयोजनम् । २-शब्दसाधनं विषयः । ३-शब्दज्ञानार्थी अधिकारी। ४-प्रतिपाद्यप्रतिपादकभावादिः सम्बन्धः ।
पञ्च सन्धयःसन्धयः पच, पञ्चसन्धिप्रकरणमिति च परम्पराप्रवादः । तत्र जायते जिज्ञासा के ते पच सन्धयः ? यानाश्रित्य प्रवृत्तोऽयम्प्रवादः । लघुकौमुद्याम-प्रचसन्धिः, हल सन्धिः, विसर्गसन्धिः, इति सन्धित्रयमेव समुपलभ्यते । सिद्धान्तकौमुधु - क्तस्वादिसन्धिसम्मेलनेऽपि चत्वार एव सम्पद्यन्ते । अत्र केचित्-प्रकृतिभावं चतुषु पञ्चम सन्धिमाचक्षते। वर्णसन्धान सन्धिरिति व्याकुर्वाणा अन्ये प्रकृतिभावस्य सन्धित्वे न सन्तुष्यन्ति तत्र वर्णसन्धानाभावात् । ते हि सिद्धान्तकौमुद्युक्त-चतुःसन्धिषु पञ्चमम् - अनुस्वारसन्धि परसवर्णरूपं ब्रुवते ।