SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ अथ परिशिष्टम् द्वन्द्वं द्वन्द्वदेहं तं द्वन्द्वनृन्दनिकन्दनम् । वन्देऽहं सच्चिदानन्दं देवं श्रीनन्दनन्दनम् ॥ १॥ कर्तुं नुपेन्द्रविवृतेविवृतेष्ट लक्ष्यान् भ्रातृनुपेन्द्रविदुषो विदुषो विशिष्टान् । भक्तानुपेन्द्रपदयोः पदयोजनाविद्, वन्दे गुरौ रतिगुरून् गुरु विश्वनाथान् ॥२॥ एषोऽहं कविकान्तो निगमानन्दः परमहंसः । विदधे बालबोधाय परिशिष्ट कौतुकादेव ।। अथ लघुलिङ्गानुशासनम् लोकाश्रयस्य लिङ्गस्य बाहुल्य । रिलोकनात् । लिख्यते बालबोधाय लघुलिङ्गानुशासनम् ॥ १ लिङ्गम् । अधिकारोऽयम् । स्त्रीलिङ्गाधिकारः २ स्त्री । प्रयमप्यधिकारः । ३ न्यूप्रत्ययान्तो धातुः । श्रनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् 1 प्रवनिः चमूः । ४ मिन्यन्तः । मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियाम् । भूमिः ग्लानिः । ५ क्तिन्नन्तः (त्यन्तश्च ) क्तिन्प्रत्ययान्तस्तिप्रत्ययान्तश्च स्त्रियाम् । क्तिन्नन्तो यथा - गतिः, कृतिः, मतिः, भूतिः, तिप्रत्यायान्तो यथा -युवतिः । " ६ ईप्रत्ययान्तश्च । ङीबन्तो ङीषन्तो ङीनन्त ईप्रत्ययान्तश्च स्त्रियाम् । नदी, ऐन्द्रो, गार्गी । गौरो, नर्त्तकी, गोपी, तटी, कठा । शार्ङ्गरवी, बैदी, ब्राह्मणी, नारी, लक्ष्मीः । ७ ऊङाबन्तश्च । ऊङन्ता यथा – कुरु: पङ्गुः श्वश्रूः वामोरूः इत्यादयः । प्रावन्ता यथा - अजा, अश्वा, बाला, रमा, मेवो, गङ्गा, सर्वा, त्रिफला इत्यादयः । ८ य्वन्तमेकाक्षरम् । ईकारान्त ऊकारान्तश्चैकाक्षरः स्त्रियाम् । श्रीः, भूः । एकाचरं किम्- पृथुश्रीरयम् । । C विंशत्यादिरानवतेः । स्त्रियाम् । इयं विंशतिः २० ४० । पश्चाशत् ५० । षष्टिः ६० । सप्ततिः ७० । श्रशीतिः ८० त्रिशत् ३० । चत्वारिंशत् । नवतिः ६० । १० तलन्तः । स्त्रियाम् । शुक्लता, ब्राह्मणता, जनता, देवता, सहायता । ११ भाः स्रुक् स्रग दिगुष्णिगुपानहः । ऐते स्त्रियां स्युः । इयं भाः, स्रुक्, प्रकू, दिक्, उष्णिक्, उपानत् । - १२ शष्कुल- राजी कुट्यशनि वर्त्ति भ्रकुटि त्रुटि बलि- पङ्कयः । एते स्त्रियां स्युः इयं शष्कुलिरित्यादयः प्रशमिः पुंसि च । इयमयं वाऽशनिः ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy