________________
स्त्रीप्रत्ययाः
"शका | असुपः किम् - बहुपरिव्राजका- नगरी ( सूर्याद्देवतायां चाब्वाच्यः ) सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् - ( सूर्यागस्त्ययोश्छे चङयां च ) यलोपः | सूरी - कुन्ती । मानुषीयम् ।
"इन्द्र- वरुण-भव-शव-रुद्रमृड- हिमारण्य-यव-यवन-मातु
१२५६ लाचार्याणामानुक ४ । १ । ४६ ।
६
पपामानुगागमः स्यात् ङीष् च । इन्द्रस्य स्त्री इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । ( हिमारण्ययोर्महत्त्वे ) महद्धिमं हिमानी, महदरण्य मरण्यानी । ( यवाद्दोषे ) दुष्टो यवो = ' यवानी । ( यवनाल्लिप्याम् ) यवनानां लिपिर्यवनानी ( मातुलोपाध्याययोरानुग्वा) मातुलानी, मातुली । ' उपाध्यायानी; उपाध्यायी ( आचार्यादणत्वं च ) आचार्यस्य स्त्री आचार्यानी । (क्षत्रियाभ्यां वा स्वार्थी ) श्रर्याणी, अर्या । "क्षत्रियाणी, क्षत्रिया |
ܢ
३३१
=
१- 'पचाद्यच्' ततष्टाप् । नात्र प्रत्ययस्थः ककारः । २- बहवः परिव्राजका यस्यामिति सुबन्ताट्टाप् ( प्रत्ययलक्षणेन सुपः परोऽयं टाप् ) । ३ - सूर्यस्य स्त्री 'पुंयोगादाख्यायाम् ' इति ङीप् । ४ - इयं मनुष्यजातीया इत्यर्थः । ५ - इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोगे एवेष्यते तत्र पूर्वेण ङीषि सिद्धे प्रानुङ्मात्रं विधीयते, इतरेषां चतुरणांमुभयविधिः । ६ - इन्द्राणी - 'इन्द्रस्य स्त्री' इति विग्रहे 'इन्द्र' शब्दाद् ' इन्द्र- वरुण - भव.... इत्यादिना ङोषि श्रानुगागमे चानुबन्धलोपे सवर्णदीर्घे नस्य गत्वे विभक्तिकार्ये रूपम् ' इन्द्राणी ' इति । ७ - यवानी --दुष्टयवेथें 'यव' शब्दात् 'यवाद्दोषे' इति वार्त्तिकेन ङीषि श्रानुगागमे ऽनुबन्धलोपे सवर्णदीर्घे बिभक्तिकार्ये 'यवानी' इति । उपाध्यायानी- 'उपाध्यायस्य स्त्री' इत्यर्थे 'उपाध्याय' - शब्दाद् 'ङोषि' मातुलोपाध्याययोरानुग्वा' इति वैकल्पिके श्रानुगागमे सवर्णदीर्घ विभक्तिकायें 'उपाध्यायानी' । पक्षे 'उपाध्यायी' इति । ६चकारादानुक् ङीष् च भवति । १० - क्षत्रियाणी - 'क्षत्रियजातावुत्पन्ना स्त्री' इत्यर्थे 'चत्रिय’– शब्दाद् ‘मयंक्षत्रियाभ्यां वा स्वायें' इति वार्त्तिकेन वैकल्पिके ङीपि तत् सन्नि योगशिष्टे श्रानुगागमे चानुबन्धलोपे भत्बेडकारलोपे नस्य णत्वे विभक्तिकायें 'क्षत्रियाणी' पक्षे 'टाप्' प्रत्यये 'क्षत्रिया' इति रूपं सिद्धयति । पुंयोगे तु 'पु योगादाख्यायाम्' इति ङोषि 'क्षत्रियो' इति ।
१२५६ - इन्द्रादि शब्दों से आनुक का ग्रागम होता है और ङीप् प्रत्यय होता है।