SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ तद्धिताः ३२१ 'किन्तमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः । २१ १२१८ द्विवचनविभज्योपपदे तरबीयसुनौ ५ । ३ । ५७ । द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । श्रयमनयोरतिशयेन लघुर्लघुतरः । लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः । १२१६ प्रशस्यस्य श्रः ५ । ३ । ६० । अस्य श्रादेशः स्यादजाद्योः परतः । ४ १२२० प्रकृत्यैकाच् ६ । ४ । १६३ । इष्ठादिष्वेकाच् प्रकृत्या स्यात् । "श्रेष्ठः, 'श्रेयान् । १२२१ ज्य च ५ । ३ । ६१ । प्रशस्यस्य ज्यादेशः स्यात् इष्ठेयसोः । "ज्येष्ठः । १- किन्तमाम्-प्रतिशयेन कि किन्तमाम् । कि शब्दात् 'अतिशायने तमबिष्ठनौ' इति 'तमप्' प्रत्ययेऽनुबन्धलोपे भस्यानुस्वारे परसवर्णे ' किन्तम्' इत्यस्मात् तमपो घसंज्ञकस्वेन तदन्तात् 'किमेतिडव्यय...' इत्यादिना 'श्रामु' प्रत्यये उकारलोपे भत्वे 'यस्येति च' इत्यकारलोपे ऽव्ययत्वेन विभवतेलुकि सिध्यति रूपं 'किन्तमाम्' इति । २-पूर्वोक्तयोस्तमबिष्ठनोरित्यर्थः । ३- 'टे:' इति टिलोपः । सान्तेति दीर्घः । ४ - इष्ठन्नीयसुनोरित्यर्थः । ५ - प्रकृतिभावान टिलोपः । ६- श्रेयान् - श्रयमनयोः श्रतिशयेन प्रशस्यः श्रेयान् । 'प्रशस्य' शब्दाद् द्विवचनविभज्योपपदे ' इत्यादिना ईयसुन् प्रत्ययेऽनुबन्धलोपे 'प्रशस्यस्य श्रः' इति श्रादेशे 'प्रकृत्यैकाच' इति प्रकृतिभावाट् टिलोपाभावे गुणे 'श्रेयस' शब्दात् प्रातिपदिकत्वात्सौ उगित्वान्नुमि सुब्लुकि 'सान्त महत....' इत्यादिना ढोघें सिध्यति रूपं 'श्रेयान्' इति । पक्षे इष्ठनि प्रत्यये ' श्रेष्ठः' इति रूपम् । ७ - ज्येष्ठ: - १२१८ - दो में से एक का अतिशय द्योत्य हो तो विभक्तव्य उपपद रहते सुबन्त और तिङन्त से तरप और ईयसुन् प्रत्यय होते हैं । १२१६ - प्रशस्य शब्द को श्र आदेश होता है अजादि इष्ठन, ईयसुन प्रत्यय परे रहते । १२२० - एकाच को प्रकृतिभाव होता है इष्ठादि प्रत्यय परे रहते । १२२१ - प्रशस्य को ज्य श्रादेश होता है इष्ठन् ईयसुन प्रत्यय परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy