SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५६ लघुसिद्धान्तकौमुद्याम् ६१८ अनश्च ५।४।१०८ । अन्नन्तादव्ययीभावाट्टच् स्यात् । ६१६ नस्तद्धिते ६।४।१४४ । नान्तस्य भस्य टेर्लोपस्तद्धिते । उपराजम् । 'अध्यात्मम् । ६२० नपुंसकादन्यतरस्याम् ५। ४ । १०६ । अनन्त यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम्, उपचर्म। ६२१ झयः ५।४ । १११ । भयन्तादब्ययीभावाट्टच् वा स्यात् । उपसमिधम्, उपसमित् । इत्यव्ययीभावः। अथ तत्पुरुषः ६२२ तत्पुरुषः २ । १ । २२ । 'जरायाः समीपम् उपजरसम्' । 'जरा+ङस् उप' इत्यलौकिकविग्नहे-अव्ययं विभक्तीति सूत्रेण समासे प्रातिपदिकत्वे सुफो लुकि उपसर्जनत्वेनोपशब्दस्य पूर्वनिपाते सोरमि पूर्वरूपे 'उपजरसम्' इति रूपं सिध्यति । अध्यात्मम् - प्रात्मनीत्यध्यात्मम् 'प्रात्मन् + ङि अधि' इत्यलौकिकविग्रहे 'अव्ययं विभक्ति...' इत्यादिना समासे 'अधि' इत्यस्योपसर्जनत्वे पूर्वनिपाते समासत्वेन प्रातिपदिकसंज्ञायां सुब्लुकि यणि 'अध्यात्मन्' इत्यस्भात अनश्चेति 'टच' प्रत्यये 'नस्तद्धिते' इति टिलोपे सौ 'नाव्ययीभावादि' ति सोरमि पूर्वरूपे सिध्यति रूपम 'अध्यात्मम ' इति । २-टचूपक्षे टिलोपे रूपम् । प्रदन्तत्वात् '६१२ नाव्ययीभावादिति'-'अम्। ६१ - अन्नन्त अव्ययीभाव से टच प्रत्यय होता है । ६१६-नान्त भसंज्ञक की टि का लोप होता है तद्धित परे रहते । ६२० -- अनन्त जो क्लीब, तदन्त अव्ययीभाव से टच होता है विकल्प से । ६२१-झयन्त अव्ययीभाव से टच होता है । इत्यव्ययीभावः । अथ तत्पुरुषः ६२२–'शेषो बहुव्रीहिः' सूत्र से पूर्व तक 'तत्पुरुषः' का अधिकार जाता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy