________________
तिङन्ते यङन्तप्रक्रिया
२०३ अथ यङन्तप्रक्रिया ७११ धातोरेकाचो हलादेः क्रियासमभिहारे यङ ३।१। २२ । पौनः पुन्ये भृशार्थे च द्योत्ये 'धातोरेकाचो हलादेर्यङ स्यात् । ७१२ गुणो यङ-लुकोः ७ । ४ । ८२ ।
अभ्यासस्य गुणो यङि यङ्लुकि च । ङिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति-बोभूयते । बोभूयाश्चक्रे । अवोभूयिष्ट ।
७१३ नित्यं कौटिल्ये गतौ ३।१।२३ । मत्यर्थात् कौटिल्य एव यङ् स्यात्, न तु क्रियासमभिहारे। . ७१४ दीर्घोऽकितः ७ । ४ । ८३ ।
अकितोऽभ्यासस्य दी| यङि यलुकि च । कुटिलं व्रजति-वाव्रज्यते । इति कित्वाद्गुणाभावे द्वित्वेऽभ्यासत्वेऽभ्यासह्रस्वेऽभ्यासभकारस्य बत्छो सस्य षल्ने 'बुभूष' इत्यस्य पुनर्षांतुसंज्ञायां लटि तिपि शपि सिध्यति रूपं 'बुभूषति' इति ।
इति समन्ताः । १- अजादेरनेकाचश्च न यङित्यर्थः । २-बोभूयते-भूधातोः पुनः पुनः प्रतिशयेन वा भवतीति विग्रहे 'धातोरेकाचो हलादेः' इत्यादिना यङि 'सन्यङो' रिति द्विवोऽभ्यासहस्गे बवे च 'गुणो यङ्लुको' रिति अभ्यासस्य गुणे 'बोभूय' इत्यस्य ‘सनाद्यन्ताः' इति धातु संज्ञायां लटि ङित्वादात्मनेपदे लस्य तादेशे शपि पररूपे टेरेत्वे सिध्यति रूपं 'बोभूयते' इति । ३-वाव्रज्यते-'कुटिलं व्रजति' इति विग्रहे 'ब्रज' धातोः 'नित्यं कौटिल्ये' इत्यनेन यहि द्विस्वेऽभ्यासत्वे हलादिशेषे 'दीर्घोऽकितः' इत्यभ्यासस्य दोघे 'वाव्रज्य' इत्यस्य धातुत्वे लटि तादेशे शपि पररूपे टेरेत्वे 'वाव्रज्यते' इति रूपम् ।
प्रथ यङन्तप्रक्रिया ७११-पौनःपुन्य और भृशार्थ के द्योत्य होने पर एकाच हलादि धातु से यङ् होता है।
७१२-अभ्यास को गुण होता है यङ परे रहते और यङलुक के विषय में ।
७१३-गत्यर्थक धातुत्रों से कौटिल्य अर्थ में ही यङ होता है; क्रियासमभिहार अर्थ में नहीं।
७१४-किभिन्न अभ्यास को दीर्घ होता है यङ परे रहते और यङ लुक के विषय में।