________________
तिङन्ते भ्वादयः ४७६ कृ-सृ-भृ-वृ-स्तु-द्रु-स्र--श्रुवो लिटि ७ । २ । १३ । क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात् । ४८० अचस्तास्वत्थल्यनिटो नित्यम् ७ । २ । ६१ ।। उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण् न । ४८१ उपदेशेऽत्वतः ७ । २ । ६२ । उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण न स्यात् । ४८२ ऋतो भारद्वाजस्य ७ । २ । ६३ ।
तासौ नित्यानिट ऋदन्तादेव थलो नेड् भारद्वाजस्य मते । तेन अन्यस्य स्यादेव । अयमत्र संग्रहः
"अजन्तोऽकारवान् वा यस्तास्यनिट थलि वेडयम। ऋदन्त ईदृङ् नित्यानिट क्राद्यन्यो लिटि सेड् भवेत् ॥”
१-( ऋदन्तभिन्नेषु ) अजन्तेषु-अनिट्सु धातुषु क्रादिनियमात् = ( 'कृ सृ भृ वृ', सूत्रात् ) लिटि सर्वत्र नित्यमिट प्राप्तः, स च "अचस्तास्वत्थल्यनिटो नित्यम्" थलि निषिध्यते ( पाणिनिमतेन ) भारद्वाजमतेन "ऋतो भारद्वाजस्य” इति नियमाद् विधीयते । एवम् अकारवान् तासि नित्यानिट यो धातुस्तस्मादपि क्रादिनियमेन लिटि सर्वत्र 'इट' थलि "उपदेशेऽत्वतः” इति निषिद्धो भारद्वाजनियमेन पुनर्विधीयते । तथा च मतद्वयेन विकल्पः सिद्धयति । क्रमेणोदाहरणम्-यथा चिक्षयिथ, चिक्षेथ । तेपिथ, ततप्थ । पपिथ, पपाथ । पेचिथ, पपक्थ । इयजिथ, इयष्ट । तथा चोक्तं संग्रहकारिकायाम्-अजन्तोऽकारवान्वेत्यादि । किञ्च ईदृक =तासौ नित्याऽनिट ऋदन्तो धातुस्थलि
४७९-क्रादि धातुओं से ही परे लिट् को इट् नहीं होता, अन्य अनिट् धातुओं से परे भी लिट् को इट् होता है। ___४८०-उपदेश में जो अजन्त घातु, तास् परे रहते नित्य अनिट् , उससे परे थल् को इट नहीं होता। ___४८१-उपदेश में अकारवान् जो धातु, तास् परे रहते नित्य अनिट् , उसको थल परे रहते इट नहीं होता।
४८२-तास् परे रहते नित्य अनिट् ऋदन्त धातु को ही थल परे रहते हट् नहीं होता भारद्वाज के मत में। अन्य धातुओं को तो भरद्वाज के मत से इट् होता ही है।