________________
लघुसिद्धान्तकौमुद्याम् द्वितीयैकवचनान्तयोस्त्वा-मा, इत्यादेशौ 'स्तः । "२श्रीशस्त्वाऽवतु मापीह दत्तात्त मेऽपि शर्म सः। स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः॥ 'सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः। सोऽव्याद्वो नः शिवं वो नो दद्यात् सेन्योऽत्र वः स नः" ।।
१ (एकवाक्ये युष्मदस्मदादेशा वक्तव्याः)।२ (एकतिङ् वाक्यम्) तेनेह न-ओदनं पच तव भविष्यति ।
इह तु स्यादेव-शालीनां ते ओदनं दास्यामि । ३ (एते वांनावादयोsनन्वादेशे वा वक्तव्याः) अन्वादेशे तु नित्यं स्युः । धाता ते भक्तोऽस्ति धाता तव भक्तोऽस्ति वा । तस्मै ते नम इत्येव । सुपात् सुपाद् । सुपादौ ।
३३३ पादः पत् ६ । ४ । १३० ।
पाच्छब्दान्तं यदङ्ग भं तदवयवस्य पाच्छब्दस्य पदादेशः। सुपदः। सुपदा । सुपाद्भयाम् । अग्निमत्, अग्निमद् । अग्निमथौ । अग्निमथः ।
१-इत्थमत्र विवेकः-द्वितीयैकवचने 'त्वामौ' । चतुर्थीषष्ठयेकवचनयोः 'ते-मे' इति। विभक्तित्रयवहुवचनेषु वस् नसौ । सर्वत्र द्विवचने 'वाम' 'नौ' इति भवतः । २-श्रीशः = परमात्मा, त्वा - त्वाम्, मा माम, इह अवतु = रक्षतु । स श्रीशः ते = तुभ्यं, मे = मह्यम् , अपि शर्म = सुखम् , दत्तात् दद्यात् ! स हरिः, ते = तव, मे = मम, स्वामी = ईश्वरः , विभुः = विष्णुः, वाम् = युवाम् , नौ= प्रावाम् , पातु = रक्षतु । ३-ईशः. वाम् -- युवाभ्याम् नौ = प्रावाभ्याम्, सुखं ददातु । हरिः, वाम् = युवयोः, नौ = आवयोः, पतिः = पालकः । स ईशः, वः = युस्मान् , नः = अस्मान्, अध्यात रक्ष्यात् । वः = युष्मभ्यम् नः = अस्मभ्यम्, शिवम् = कल्याणं दद्यात् । अत्रसंसारे, स हरिः, वः = युष्माकम, नः = अस्माकम् . सेव्यः - सेवनीयः = भजनीयः । इत्युदाहरणानि। ४-अत्र तु तिङ-( तिङन्त-) द्वयम् । ५-नित्यमित्यर्थः । ६-'अग्निमनाति' इति विग्रहः।
(वा०-(१) समान वाक्य में युष्मद् अस्मद् को उक्त आदेश होते हैं । (२) एकतिङ् शब्द समुदाय--को वाक्य कहते हैं । (३) ये वां नौ आदि श्रादेश अनन्वादेश में विकल्प से होते हैं, अन्वादेश में नित्य )।
२३३-पाद शब्द को पद् आदेश होता है।